________________
मूलम् - दौर्गत्यदुःखे सुगतिं सुखं च प्राप्नोति तादृक्कृतकर्मयोगात् ।
जीवो यदा त्वेष समानभावं, श्रयेत्तदा गच्छति ब्रह्मभूर्यम् ॥ ६३ ॥ टीका - जीवानां सुखदुःखविषये सिद्धान्तमाह - दौर्गत्येत्यादिना ' जीवः ' -जन्तुः, ' तादृक्कृतकर्मयोगात् ' -तथाविधं विहितकर्मसंयोगेन, 'दौर्गत्यदुःखे ' - दुर्गतिं दुःखं च पुनः 'सुगतिं ' - शोभनां गतिं, 'सुखं' - सौख्यं च, 'प्राप्नोति'लभते, ' यदा' - यस्मिन्काले, तु, एपः जीवः, 'समानभावम् ' - समत्वम्, रागद्वेपविरहितत्वमित्यर्थः, ' श्रयेत् - आश्रयति, ' तदा ' - तस्मिन्काले, 'ब्रह्मभूयं - ब्रह्मत्वं, ' गच्छति ' - प्राप्नोति ॥ ६३ ॥
मूलम् तुष्टिर्जनानां परमेश्वरस्य चेत्सृष्टिसंहारकथाप्रवृत्त्या ।
स्फूर्त्तिप्रभावप्रतिपादनार्थ, तदेति वाच्या स्तुतिरीश्वरस्य ॥ ६४ ॥
टीका - तुष्टिरित्यादि ' चेत् ' - यदि, 'परमेश्वरस्य ' - शिवस्य, 'सृष्टिसंहारकथाप्रवृच्या ' -जगद्र चनतत्संहारवार्त्तायाः प्रवृत्तेः, ' जनानां ' - मनुष्याणाम्, ' तुष्टिः ' - प्रसादो भवतीति, 'तदा' - तर्हि, 'स्फूर्तिप्रभावप्रतिपादनार्थ ' - दीप्तिप्रतापकथनार्थम्, ' इति ' - अनया रीत्या, ईश्वरस्य, ' स्तुतिः - स्तवः, ' वाच्या ' - कथनीया भवति ॥ ६४ ॥
मूलम् - आस्तामयं श्रीपरमेष्ठिनामा, तद्ध्यानवानेष जनोऽभिनिष्यत् ।
कर्त्ता सुखस्यात्मनि संविधानात् संहारकश्चात्मतमोपहारात् ॥ ६५ ॥ १. ब्रह्मत्वं । २. स्यात् ।