________________
SASUR
5AGAR**
पवित्रीकुर्वन् , अस्ति तथा 'ज्योतिर्मयायोत्थगुणैः'-ज्योतिर्मयप्रभृत्युत्पन्नैर्गुणैः, 'विशिष्ट:'-युक्तोऽस्ति, 'स:'-पूर्वोक्तः, | 'अयं '-प्रसिद्धो जगदीश्वरः, ' चेत् '-यदि, 'स्वकांशान्'-आत्मनोऽशान् , जंतून् , ' स्वरसात् '-आत्मन आनंदहेतोः, - आत्मनो लीलादिरसेनेतिभावः, ' विमोहे '-मोहयुक्ते, 'संसारभावे'-संसारित्वे, 'विरचय्य '-निर्माय, 'सद्यः'-शीघ्रम् ॥ 'एवम् '-उक्तप्रकारं, 'बहुदुःखपात्रम् '-अनेकदुःखानां स्थानं, 'जीवत्वं '-जीवभावं, 'नुदति '-प्रेरयति, ' तर्हि '-तदा, 'इमे'-प्रसिद्धाः, 'प्राणभृतः '-प्राणिना, ' कर्तुः '-जगत्कारकस्य, 'अंशाः '-अवयवाः, 'नहि '-नैव, सन्ति, 'यत्'-- यस्मात्कारणात् , ' अपरे'-भिन्नाः सन्ति ।। ५७-५८॥ __ मूलम् कर्ता कथं सङ्कटपेटकोदरे, दौर्गत्यदौस्थ्यादिमये भवेऽस्मिन् ।
जानन्निजांशान्सहसैव नुद्यात्, स्वकस्वरूपाद्विनिपात्य रम्यात् ॥ ५९॥ टीका-जीवप्रेरणविषय एव पुनर्दोपमाह-कर्तेत्यादिना 'कर्ता'-जगदीशः, 'निजांशान् '-स्वांशरूपान्, 'सहसैव'अविचार्यैव, 'अस्मिन् '--पूर्वोक्ते भवे-संसारे, 'कथं '-केन प्रकारेण, 'नुद्यात्'-प्रेरयेत् , कथं प्रेरयितुं शक्नोतीतिभावा, I कथंभूतः कर्ता ? 'जानन् '-विदन् , संसारस्थदुःखादिकं जानानोऽपीत्यर्थः, किं कृत्वा नुवादित्याह-स्वकेत्यादि 'स्वकस्वरूपात् '-निजस्वरूपात् , ' विनिपात्य'-पातयित्वा, प्रच्याव्येति यावत् , कथंभूतात् स्वकस्वरूपात् ? ' रम्यात् '-रमणी-| यात्, मनोहरादित्यर्थः, कथंभूते भवे ? संकटपेटकोदरे'-संकटानाम्-दुःखानां पेटकं-मंजूषा उदरे-गर्भे यस्य स तथा |
१ पातयित्वा ।