________________
194
तस्मिन्, पुनः कथंभूते ? ' दौर्गत्यदौस्थ्यादिमये '-दौर्गत्यं-दुर्गतिः दौस्थ्य-दुःखस्थानम् इत्यादिभिर्युक्ते ॥ ५९॥ मूलम्--एषा तु लीलाऽस्ति यदीश्वरस्य, संसार एवैष ततस्तंदिष्टः ।।
तदा तु संसारिजनैस्तदाप्त्यै, कष्टादि केनाथ विधेयमुग्रम् ॥ ६०॥ टीका-वादिपक्षपरिहरणपूर्वकं पुनर्दोपमाह-एषा वित्यादिना 'यदि '-चेत्, 'एपा'-पूर्वोक्ता, तु, 'ईश्वरस्य'जगत्स्वामिनः, 'लीला'-क्रीडाऽस्ति, 'ततः '-तर्हि, ' एप:'-दौर्गत्यादिमयः, 'संसारः '-भव एव, 'तदिष्टःईश्वरस्याऽभीष्टोऽस्ति, 'तु' शब्दो विशेषणार्थः, ' अथे 'ति वितर्के, तदा 'संसारिजनैः'-भववर्तिभिर्मनुष्यैः, तदाप्यैरीश्वरस्य प्राप्तये उग्रं कष्टादि तीक्ष्णं क्लेशप्रभृतिदुस्तरतपश्चर्यादीतिभावः, 'केन'-कारणेन, 'विधेयम्'-कर्त्तव्यमस्ति, यदीश्वरस्य संसार एवाभीष्टस्तर्हि सांसारिकजनैस्तत्प्राप्तये दुस्तरतपश्चर्यादिकृत्यं किमर्थं क्रियत इतिभावः ॥ ६॥
मूलम्-पूर्वापरानाश्रितवाक्यमेतत्, प्रजल्पता काऽपि न वाक्प्रतीतिः।
___य सर्वसद्रूपगुणानदोषान् , कर्तुर्वरांशानिति पातयन्ति ॥ ६१॥ टीका-फलितमाह-पूर्वापरेत्यादिना ' एतत् '-पूर्वोक्तं, 'पूर्वापरानाश्रितवाक्यं '-पूर्वापरासंबंद्धवचनम्, 'प्रजल्पताम् '-कथयताम्, 'तेषां'-यवनाचार्यादीनाम्, 'कापि'-काचिदपि, 'वाक्प्रतीतिः '-वचनेषु विश्वासो न भवति, ये, 'कर्तुः'-जगदीश्वरस्य, ' सर्वसद्रूपगुणान् ' सर्वोत्तमस्वरूपान् गुणान् , इति 'एतेन'-उक्तप्रकारेण, 'पातयन्ति'
१. परमेश्वरस्येप्टः । २. परमेश्वरप्राप्त्यै ।
2 518RELEASE