________________
-
ईश्वरेण एव, 'समा'-सर्वा, 'निषिद्धाऽस्ति'-प्रतिषिद्धा वर्तते ॥५४-५५ ।।
मूलम्-अन्यान्निषेधन्पुनरात्मना सृजं-स्तदा स कोऽतीव विनिन्दितः स्यात् ।
एवं त्वनालोचनकर्मकार, वयं न कर्तारमिमं वदामः॥५६॥ टीका-उक्तविषय एव आह-अन्यानित्यादि यदा य: 'अन्यान् '-परान्, 'निषेधन् '-प्रतिवारयन् , 'पुनः'-परन्तु, 'आत्मना'-स्वेन, 'सुजन्'-कुर्वन् , भवतीतिशेषा, ‘स का'-सः, 'तदा'-तस्मिन् काले, 'अतीव'-अत्यन्तं, 'विनिन्दित'कुत्सितः, ' स्यात् '-भवति, फलितमाह-एवमित्यादिना 'तु' शब्दो विशेषणार्थः, ' एवम् '-उक्तप्रकारम् , 'अनालोचन- || कर्मकारम् '-असमीक्ष्य कारिणम् , ' इमं '-पूर्वोक्तं, ' कर्तारं '-कारकम् , ' न वदामः'-न कथयामः ॥ ५६ ॥
मूलम्-यत्त्वद्वचोन्यासभरैः स कर्ता, पूतः स्वयं स्वीयजनान्पुनानः।
ज्योतिर्मयायोत्थगुणैर्विशिष्टः, सोऽपि स्वकांशानस्वरसाद्विमोहे ।। ५७ ॥ संसारभावे विरचय्य सयो, जीवत्वमेवं बहुदुःखपात्रं ।
नुदत्ययं चेन्नहि तर्हि कर्तु-रंशा इमे प्राणभृतोऽपरे यत् ॥ १८॥ टीका-अत्र पुष्टिमाह-यवदित्यादिना ' यत् '-यस्मात्कारणात् , ' त्वद्वचोन्यासभरैः '-तव वाक्योपन्यसनसमुदायैः ॥ 'सः'-पूर्वोक्तः, 'कर्ता'-कारका, ' स्वयं'-स्वतः, 'पूतः '-पवित्रोऽस्ति, ' स्वीयजनान्'-स्वमनुष्यान्, 'पुनानः'
१. प्रागेव ब्रह्मलक्षणसटशलक्षण: त्वदुक्तः कर्ता । २. स्वकीयात् कस्माचिल्लीलादिरसात् ।