________________
रक्षतीतिभावः ॥ ५३॥
मूलम्-लीलेति चेत्तहि जनोऽपि लीला, कुर्वन निन्द्यो भवति प्रवीणैः।
तपोयमध्यानमुखैः स लभ्य-श्वेत्तानि रुच्यै यदि सन्ति तस्मै ॥५४॥ एतानि यस्मै रुचये भवन्ति, स नेहशीं जातु करोति लीलाम् ।
लोकेऽपि जीवादिकघातनोत्था, लीला निषिद्धास्ति समैव तेन ॥५५॥ टीका-अत्रैव दोषमाह-लीलेत्यादिना 'चेत् '-यदि त्वमेवं ब्रूया यत्तस्य इतीयं लीला-कौतुकमस्ति तर्हि तदा लीलाकौतुकम् स्वचित्ताभीष्टागम्यगमनादिक्रीडामितिभावः, 'कुर्वन् '-विदधत् , 'जनोऽपि '-मनुष्योऽपि, 'प्रवीणैः'-चतुर, 'निंद्यः'-निन्दायोग्यः, 'न भवति'-न जायेत, वादिहृदयस्थशंकांतरं परिहतमाह-तपोयमेत्यादि ' चेत् '-यदि, 'स:'जगदीशः, 'तपोयमध्यानमुखैः'-तपोयमध्यानादीभिा, 'लभ्यः'-प्रापणीयोऽस्ति, तथा 'तानि'-तपोयमध्यानादीनि,
' तस्मै '-जगदीशाय, 'रुच्यै '-प्रीतये सन्ति, तर्हि यस्मै 'एतानि '-तपःप्रभृतीनि, 'रुचये '-प्रीतये भवन्ति, स . 'जातु '-कदाचित् , ' ईदृशीम् '-उक्तप्रकारां, 'लीलाम् '-क्रीडाम्, जनानां दुःखदां न करोति'-न विधत्ते, अत्र लौकिके क्रीडामित्यर्थः 'लोके'-संसारेऽपि, 'जीवादिकपातनोत्था'-प्राण्यादि हिंसाजन्या, 'लीला'-क्रीडा, 'तेन
१. स्वचित्ताभीष्टागम्यगमनादिक्रीडां विदधत् । २ स खुदाईनामा जगदीशः । ३. तपःप्रभृतीनि । ४. जनानां दुःखदानरागद्वेषादिविधानसहारादिकाम् ।