________________
मूलम्-कृत्वा नवानेव यदैव जन्तून् , संसारिभावं प्रति लाभयेचेत् ।
मौलान् कथं मोचयितुं क्षमो न, येन स्वक्लप्तानिति किं विडम्पयेत् १ ॥५२॥ टीका-द्वितीयपक्षे दोपमाह-कृत्वेत्यादिना ' चेत् '-यदि, ' यदा'-यस्मिन्काले, 'एच'-शब्दश्वरणपूत्तौं, 'नवानेव'नवीनानेव, 'जंतून '-प्राणिनः, ‘कृत्वा'-विधाय, 'संसारिभावं प्रति'-संसारित्वमुद्दिश्य, 'लाभयेत् ' 'जंतून् ''मोचयितुम् '-मुक्तान् कर्तु, 'कथं '-कुतः, 'क्षम:'-समर्थो न भवति, 'येन'-कारणेन, 'स्वक्लप्तान -स्वकृतान् । जंतून् , ' इति '-अनया रीत्या, ' सः' किं विडम्बयेत् '-कुतो विडंवितान् करोति ॥ ५२ ॥
मूलम्-कृतानपीत्थं यदि संहरेत् पुनः, कोऽयं विवेको जगदीशितुः सतः।
बालोऽपि यो वस्तु निज प्रक्लुप्तं, धर्तुं क्षमस्तावदयं दधाति ॥ ५३ ॥ टीका-उक्तपक्ष एव दोपमाह-कृतानित्यादिना यदि 'कृतानपि'-विहितानपि जंतून् , 'पुन:'-पश्चात् , ' इत्थम् - उक्तप्रकारेण, 'संहरेत् '-नाशयेत् , तर्हि 'सतः '-श्रेष्ठस्य, 'जगदीशितुः '-जगत्स्वामिनः, विष्णोरित्यर्थः, 'अयं-| पूर्वोक्तः, ' को विवेकः '-विचारशीलत्वमस्ति, जंतून् कृत्वा तत्संहारकरणे न कोऽपि विष्णोविवेक इतिभावः । अत्रैव || पुष्टिमाह-बालोऽपीत्यादिना ' यो बालोऽपि '-बालकोऽपि भवति सः, 'निजम्'-आत्मीय, 'प्रक्लप्त'-कृतं वस्तु यावत्, | 'धर्तुं -रक्षितुम् , 'क्षमः'-शक्तो भवति, ' तावत् '-तत्कालपर्यन्तम्, ' अयं'-बालः, 'दधाति '-धर्ते, 'सुरक्षितं -
१. प्रापयेत् । २. स्वकृतान् । ३. रक्षति ।
-