________________
मूलम्-इष्टे पदे चेत्परिरक्ष्य जीवान, या कार्यकाले प्रकटीकरोति ।
सोऽस्मादृशः कर्मणि वस्तुरक्षी, प्रस्तावनोप्राप्तिभयाद्विभीतः ॥५०॥ टीका-वार्तामेवाह-इष्ट इत्यादिना 'चेत्-यदि, 'इष्टे पदे '-स्वाभीष्टे स्थाने, 'जीवान् '-प्राणिनः, 'परिरक्ष्य'रक्षित्वा, 'य:'-कर्ता, 'कार्यकाले'-कार्यावसरे, 'प्रकटीकरोति'-प्रादुर्भावयति, तर्हि 'स:'-पूर्वोक्तः कर्ता, 'कर्मणि'क्रियावसरे, 'अस्मादृशः'-अस्माभिस्तुल्या, 'वस्तुरक्षी'-पदार्थरक्षको भवति, कथंभूतः स वस्तुरक्षी कर्तेत्याह-प्रस्तावेत्यादि प्रस्तावनो प्राप्तिभयाद् विभीत:'-प्रस्तावे-अवसरे या नो प्राप्तिरप्राप्तिस्तथा भयाद्-भीतेविभीत:-भयं प्राप्तः ॥५०॥
मूलम्-अशक्तिरप्यस्य निवेदिता य-नो भिन्नभिन्नार्थकमेलवीर्यः।
कर्तुंस्त्वचिन्त्या किल शक्तिरस्ति, तत्कि स लोभीति निगद्यते हो ॥५१॥ टीका–उक्तपक्षाभ्युपगमे दोपमाह-अशक्तिरित्यादिना एवं च सति 'अस्य'-कर्तुः, 'अशक्तिरपि'-असामर्थ्यमपि, 'निवेदिता'-प्रकटीकृता भवति, 'यत् '-यस्मात् कारणात्, 'भिन्नभिन्नार्थकमेलवीर्य-पृथक्पृथग्जीवपदार्थमेलनशक्तियुता, 'नो'-नैवाऽस्ति, वादी पाह-क रित्यादि कर्तुः '-कारकस्य तु, 'किलेति'-निश्चये, 'अचिन्त्या'-अचिंतनीया, 'शक्तिः '-सामर्थ्य, 'अस्ति'-विद्यत इति, अस्य परिहारमाह-तदित्यादिना 'तत्'-तर्हि, 'हो'-इति संबोधने आश्चर्य | वा, किं 'स'-कर्त्ता, ' लोभी'-लोभयुक्तोऽस्ति, ' इति '-एतत् , 'निगद्यते'-कथ्यते ॥५१॥
१. स्ववान्छिते स्थाने । २. क्रियावसरे । ३. अबसरे याऽप्राप्तिस्तद् भयात् । ४. पृथक्पृथग्जीवपदार्थमेलनबलः ।