________________
55555555555
अंजनरहितम्, 'नित्यम् '-एकरूपम् , ' अमूर्त'-मूर्तिविरहितम् , ' अथ चेति समुच्चये, 'अक्रियं'-क्रियारहितम् , ब्रह्म, 'सङ्गीर्य'-कथयित्वा, 'पुनः '-पश्चात्, 'कारक'-कर्व, अस्ति, 'संहारकं '-संहरणकर्ट अस्ति, तथा 'रागरुडा
दिपात्रकं '-रागद्वेषादीनां भाजनमस्ति, 'अदः'-पूर्वोक्तं, 'वचः'-वचनम्, 'परस्परध्वंसि'-अन्योऽन्यव्याघातकम् , 5 'अस्ति'-विद्यते ॥ ३५-३६ ॥
मूलम्-अतो विभिन्नं जगदेतदेत-ब्रह्मापि भिन्नं मुनिभिर्व्यचारि।
अतस्तु संसारगता मुनीन्द्राः, कुर्वन्ति मुक्त्यै परब्रह्मचिन्ताम् ॥ ३७॥ टीका-फलितमाह-अत इत्यादिना 'अतः'-अस्मात् कारणात् , 'एतत् '-प्रसिद्धं, 'जगत् '-संसारः, ब्रह्मणः 'विभिन्नं '-पृथग्भूतमस्ति, एतत् , ' मुनिभिः '-महात्मभिः, 'व्यचारि'-विचारितम् , एतेन किं सिद्ध्यतीत्याह-अतस्त्वित्यादि 'अतस्त्विति'-अतएवेत्यर्थः, 'मुनीन्द्राः '-मुनिराजा, 'मुक्त्यै '-मोक्षाय, 'परब्रह्मचिन्ता'-ब्रह्मध्यानं, 'कुर्वन्ति'-विदधति, कथंभूता मुनींद्राः ? ' संसारगताः '-संसारे स्थिताः ॥ ३७॥
ईश्वरमायातो जगद्रचनानुपपत्तिं श्लोकदशकेनाह१. ध्यानम्।
Choose to Google Sket