________________
-
-
मूलम्-ये केऽपि मायामिह विष्णुमाश्रितां, जगद्विधौ हेतुमुदीरयन्त्यथ ।
- प्रष्टव्यमेषामिति किं हि मायां, विष्णुः श्रितो विष्णुमथापि माया ॥ ३८॥ टीका-इदानीं मायावादिवैष्णवमतं परिजिहीपुराह-ये केऽपीत्यादि इह'-अस्मिन्संसारे, उक्तविषये वा, 'ये केपि'- | | केचित् वैष्णवाः, 'मायां' 'जगद्विधौ'-जगतो रचने, ' हेतुं'-कारणम् , ' उदीरयन्ति'-कथयन्ति, कथंभूतां मायाम् | | 'विष्णुमाश्रितां'-कृतविष्णुसमाश्रयम् , 'अथे 'ति प्रश्नद्योतने, 'एषां'-चैष्णवानाम् , ' इति '-एतत् वक्ष्यमाणमिति यावत् | | 'प्रष्टव्यं '-अष्टुं योग्यमस्ति यत् , ' ही 'ति चरणपूर्ती, किम् ' विष्णुः "मायां श्रितः '-मायाधीनोऽस्ति, 'अथापि '--- * अथवा, माया विष्णुश्रिताऽस्ति ॥ ३८॥
मूलम्-माया जडा संश्रयितुं स्वयं नो, शक्ता तु विष्णुः परब्रह्मतुल्यः।
जानन्स्वयं नाश्रयते हि मायां, यत्पारतन्त्र्यादजडो जडं श्रयेत् ॥३९॥ टीका-पक्षद्वयमपि परिहर्तुमाह-मायेत्यादिना 'माया' 'जडा'-अचेतनाऽस्ति सा, 'स्वयं'-स्वत एव, अन्यप्रेरणमं१. ये केचन वैष्णवाः सन्ति ते च विष्णुनैव कृतं सर्ग संहारं च वदन्ति यथा च पद्मपुराणे तत्त्वानुसारिमहादेवकृतभग- 1 वत्सहस्रनामपाठे प्रतिपादितम् । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये । इत्याधनेकशः पाठः पठन्तीति तानाश्रित्याह ये केऽपीत्यादि । २.श्रिता। ३. परब्रह्माधिकारोक्तविशेषणविशिष्टत्वात् ब्रह्मतुल्यो वा विष्णुब्रह्मापरपर्यायो वा विष्णुरिति ।