________________
म्यात्
तुल्याः । ' स्युः - भवेयुः, अत्र वादिहृदयस्थां शंकां परिहर्तुमाह - तदंशेत्यादि ' चेत् ' - यदि, त्वम् एवं ब्रूया: ' तदंशसा- ब्रह्मणशानाम् समानत्वात्, 'बहुभेदभिन्ना ' - बहुभिरनेकैर्भेदैः - प्रकारैर्भेदमुपगता जीवाः सन्ति, तर्हि, 'नन्वि 'ति वितर्के, ' तत्कर: ' - सुखदुःखादिभेदकारकः, 'कश्चित् ' - कोऽपि, ' अन्यः - अपरः स्यात् ॥ ३४ ॥
मूलम् - चेद् ब्रह्मभिन्ना भुवि जन्तवोऽमी, सुखस्य दुःखस्य च कर्तृ ब्रह्म ।
हेतोर्यतो दुःखसुखे विधत्ते, ब्रह्मा स एवास्तु तयोर्विधाता निरञ्जनं नित्यममूर्त्तमक्रियं, सङ्गीर्य्य ब्रह्माऽध पुनश्च कारकम् । संहारकं रागरुडादिपात्रकं, परस्परध्वंसि वचोऽस्त्यदस्ततः
॥ ३५ ॥
॥ ३६ ॥
1
टीका - उक्तविपयानभ्युपगमे च दोषमाह - चेद्ब्रह्मेत्यादिना ' चेत् ' - यदि, त्वम् एवं ब्रूयाः 'अमी ' - प्रसिद्धाः, जन्तव: ' - प्राणिनः, ' भुवि ' - संसारे, ' ब्रह्मभिन्नाः ' - ब्रह्मणः पृथग्भूताः सन्तः, 'सुखस्य - सौख्यस्य, 'दुःखस्य क्लेशस्य च, ' कर्तृ ' - कारकं ब्रह्म, अस्ति तर्हि ' यतः ' - यस्मात् ' हेतोः ' - कारणात्, 'ब्रह्मा' ' दुःखसुखे ' -क्लेशसौख्ये, ' विधत्ते - करोति, ' स ब्रह्मा ' - ब्रह्म एव, ' तयोः ' - सुखदुःखहेत्वोः पुण्यपापयोरितिभावः, 'विधाता' - कर्त्ता, ' अस्तु - भवतु, इत्थं च सति दूषणमाह - निरञ्जनमित्यादिना ' ततः ' - तस्मात् कारणात् उक्तपक्षाभ्युपगमे सतीत्यर्थः, 'निरञ्जनम्'
१. पुण्यपापयोः । २. द्वेष ।
.