________________
समाप्तौ, 'कर्तुः ' - कारकस्य, ब्रह्मण इत्यर्थः, 'सक्रियता - सक्रियत्वम्, क्रियया सहितत्वमितिभावः, 'स्फुटा ' - व्यक्ता, कथंभूता सक्रियता १ ' मनःस्था ' - मनसि स्थिता, ' तदन्यभावे - सृष्ट्यभावे युगान्ताभावे च सृष्टिसंहाराभाव इत्यर्थः, ' निष्क्रियत्वं - निष्क्रियता, क्रियाया रहितत्वमितिभावः, 'स्याद्' - भवेत्, 'तथैव चे 'ति समुच्चये, 'जनानां ' - मनुष्याणां, 'सुखदुःखद्दष्ट्या ' - सुखदुःखदर्शनात्, हेतौ तृतीया, 'रागद्वेपौ ' - स्नेहवैरे स्तः, अत्र वादिशंकां परिहर्तुमाह - याहक क्रियेत्यादि ' या ' - याशी, 'क्रिया - कर्म, भवति, ' तादृशसौख्यदुःखे ' - ताहगेव सुखं दुःखं च भवतः, ' चेत् ' - यदि, ' एवम् ' -उक्तप्रकार:, ' भवतामपि ' - ब्रह्मवादिनां, 'ऊहः ' - वितर्कः, ' स्याद् ' - भवेत्, ' तर्हि ' - तदा, 'किले 'ति निश्वये, ' कर्तुः ' - कारकस्य, ब्रह्मण इत्यर्थः, ' बलं ' - शक्ति:, ' किम् ' - कीदृशी अस्ति ? एवं च सति, 'सुखदुःखहेतू ' - सुखदुःखयो: कारणे, 'स्वपापपुण्ये ' - आत्मनः पापं पुण्यं च, 'सिद्धे' - सिद्धिमुपगते, यादृशी क्रिया भवति ताद्यगेव सुखं दुःखं च भवतीति पक्षाभ्युपगमे सुखदुःखकारणे स्वपापपुण्य एव सिद्ध्यतः कर्तुर्बलं किमपि सिद्ध्यतीतिभावः ॥ ३२-३३ ॥
मूलम् - हे ब्रह्मवादिन् । यदि जन्तवोऽमी, ब्रह्मांशकास्तर्हि समे समाः स्युः । तदंशसाम्याद् बहुभेदभिन्ना-चेत्तर्हि कश्चिन्ननु तत्करोऽन्यः ॥ ३४ ॥
टीका- ब्रह्मणो जगत्कर्तृत्वे दूषणमाह- हे ब्रह्मवादिनित्यादिना ' हे ब्रह्मवादिनिति ' - ब्रह्मजगत्कर्तृवादिनित्यर्थः, 'यदि' - ' अमी ' - प्रसिद्धाः, ' जन्तव: ' - प्राणिनः, ' ब्रह्मांशका: ' - ब्रह्मणोंशाः सन्ति, तर्हि ' समे ' - सर्वे जन्तवः, 'समाः ' - १. ब्रह्मांशानाम् । २. जीवाः । ३ सुखदुःखादिभेदकरोऽन्यः पदार्थ. ।
चेत्,