________________
त्वम् ' भवेत् ' - स्यात्, ' द्वेषोऽपि ' - वैरमपि स्यात्, 'रागोऽपि ' - प्रीतिरपि स्यात्, ' दशा ' - नेत्रेण, ' वीक्षाऽपि 'दर्शनमपि स्यात्, सृष्टौ संहारे च ब्रह्मणः सक्रियत्वमन्यावस्थायां च निष्क्रियत्वमतिमते सति अनेकस्वभाववशाद् ब्रह्मणोऽनित्यत्वं सद्वेषत्वं दृशा वीक्षत्वं च प्राप्नोतीतिभावः, उक्तावस्थायां ब्रह्मणोऽनित्यत्वे पुनर्युक्तिमाह - नित्यमित्यादिना ' ही 'ति निश्रये, नित्यं, ' तदेव ' - वस्तु, ' अस्ति ' - भवति, ' यत् ' - वस्तु, ' एकरूपम् ' - एकस्वभावम् अस्ति तथा यत्र ' - अस्मिन्, 'पंचावयवेन वाक्येन ' - प्रतिज्ञाहेतूदाहरणोपनय निगम नाख्यपंचावयवसंयुक्तेन वाक्येन, 'क्लप्सा - समर्थिता, ' इयं - प्रसिद्धा, ' व्याप्तिः ' - साहचर्यनियमः, 'आकाशवत् ' - आकाशेन तुल्या भवति, यदेकरूपं भवति, यत्र च पंचावयववाक्य कृताऽकाशवद् व्याप्तिर्घटते तदेव नित्यं भवति अनेकस्वभावत्वदशायां तु न ब्रोकरूपं, न च तत्र पंचावयवकृताऽऽकाशवद्व्याप्तिर्घटते तस्मान्न तदुक्तावस्थायां नित्यं भवितुमर्हतीतिभावः ॥ ३०-३१ ॥
मूलम् - कर्तुः स्फुटा सक्रियता मनःस्था, सृष्टौ युगान्ते च तदन्यभावे ।
स्यान्निष्क्रियत्वं च तथैव राग-द्वेषौ जनानां सुखदुःखदृष्ट्या ॥ ३२ ॥ याकुक्रिया तादृशसौख्यदुःखे, चेदेवमूहो भवतामपि स्यात् । कर्त्तुर्बलं किं किल तर्हि सिद्धे, स्वपापपुण्ये सुखदुःखहेतू ॥ ३३ ॥
टीका - उक्तविपय एव पुनः पुष्टिमाह- कर्तुः स्फुटेत्यादिना 'सृष्टौ ' - सर्जनकाले, 'च' - पुनः, 'युगान्ते ' - युगानां परि१. सृष्टिसंहाराभावे । २. ब्रह्मवादीति चेदुत्तरयति । ३. ब्रह्मवादिनामपि ।