________________
मूलम्-चेद् वक्ष्यसि ब्रह्मगतः स्वभावो-ऽयमीहशा सक्रियनिष्क्रियादिः।
कर्तुस्त्वनेकैश्च तदा स्वभावै-रनित्यतापीह भवेत्कदाचित् ॥३०॥ द्वेषोऽपि रागोऽपि दशापि वीक्षा, नित्यं तदेवास्ति यदेकरूपम्।
आकाशवद् व्याप्तिरियं हि यत्र, वाक्येन पञ्चावयवेन क्लुप्ता ॥३१॥ टीका-अत्र वादिशंकां परिहर्तुमाह-चेद् वक्ष्यसीत्यादि ' अयं'-पूर्वोक्तं, 'ईदृशः'- इत्थं प्रकार:, 'सक्रियनिष्कियादि:'-सक्रियतानिष्कियतादियुक्तः, 'ब्रह्मगता'- ब्रह्मस्था, स्वभावोऽस्ति, ' चेद् '-यदि, त्वम् इत्थम् ' वक्ष्यसि '
कथयिष्यसि, 'तदा'-तर्हि, ' कर्तुः '-कारकस्य, परब्रह्मण इत्यर्थः, 'अनेकैः'-विविधैः स्वभावैः, अनेकस्वभाववशादि| त्यर्थः, 'तु' शब्दश्चरणपूत्तौं, ' इह '-अस्मिन् ब्रह्मणीत्यर्थः, 'कदाचित् '-कस्मिंश्चित्समये, 'अनित्यतापि'-अनित्य
१. अप्रच्युतानुत्पन्नस्थिरेकखभावं नित्यमित्यनेकस्वभावस्य नित्यस्य ब्रह्मणः सक्रियनि.क्रियताधनेकस्वभावेनानित्यत्वप्रसङ्गः। २. यदि ब्रह्मण सृष्टौ संहारे च सक्रियतान्यत्रावस्थायां निःक्रियता स्यादिति मिनस्वभावता ततोऽनेकस्वभावतापत्ति तदा नित्यस्वभावपरित्यागादनित्यस्वभावतापि स्यात् प्रजासु सुखदुःखदर्शनाद् ब्रह्मणि रागद्वेषयोरपि द्वौ भिन्नस्वभावौ स्तस्तर्हि यथा चमडशा न दृश्यते ब्रह्मेति स्वभावः तस्यापि परावृत्त्या कदाचिन्नेत्रेणापि ब्रह्मणो दर्शनं भवेदनेकस्वभावत्वात् यदनेकस्वभावं तन्नित्यं न स्यात् । ३. नित्यं तदेव यदेकस्वरूप एकस्वभावमिति । न्यायस्तु एवम् । ब्रह्म नित्यं । एकस्वभावत्वात् । यदेकस्वभाव तन्नित्यं, यथाकाशं । तथा चेदं । तस्मात्तथेति पञ्चावयववाक्येन या नित्यवस्तुनो व्याप्तिरस्ति सा ब्रह्मणि सक्रियनिःक्रियरक्तद्विष्टादिभिन्नभिन्नानेकखभावत्वेन न प्रसक्ता स्यादित्यादि स्वयमूह्यम् । ४. कृता ।