________________
निर्दोषता निष्क्रियता च तद्व-जितेन्द्रियत्वं च समानभावः ।
इत्यादि कार्य यदि तस्य प्रीति- रेष्वेव सिद्धं तदिहाक्रियत्वम्
॥ २९ ॥
टीका - उक्तविषय एव दूपणमाह- अंशास्तदीया इत्यादिना यदि ' अमी ' - प्रसिद्धा:, ' जन्तवः ' - प्राणिनः, ' तदीया अंशाः ' - ब्रह्माणोंशाः सन्ति तर्हि, ' ही 'ति निश्चये, ' तत् ' - ब्रह्म, एव, ' तान् ' -जंतून, ' कष्टं विनैव ' - दुःखमंतरेणैव, ' स्वपार्श्व ' - स्वसमीपं, ' नेतृ ' - प्रापयिट, भविष्यति अन्यथा तस्य जगत्कर्तृत्वं न सिध्यतीति वक्तुकाम आह-यदीत्यादि यदि ' तस्य ' - ब्रह्मणः, ' लब्ध्यै ' - प्राप्तये, 'निकामम् ' - निरन्तरं, 'नीरागता ' - रागाभाव:, ' निःस्पृहता 'निरभिलापित्वं, 'निर्देपता ' - द्वेषाभावः ' च ' शब्द समुच्चये, ' निष्क्रियता ' क्रियाभाव:, ' तद्वत् ' - तथैव, ' जितेन्द्रियत्वम् ' - इन्द्रियदमनम्, 'च' शब्दः समुच्चये, 'समानभावः' - समत्वम्, 'इत्यादि ' - एतत्प्रभृति, 'कार्य' - कृत्यम्, विधेयमस्ति, 'यदि ' - चेत्, 'तस्य ' - ब्रह्मणः, 'एष्वेव ' -उक्तकार्येष्वेव, नीरागतादिष्वेवेतिभावः, 'प्रीतिः ' - स्नेहोऽस्ति, 'तत्' - तर्हि, ' इह ' - अस्मिन् ब्रह्मणि, 'अक्रियत्वं ' - निष्क्रियत्वं, ' सिद्धं ' - सिद्धिमुपगतम्, यदि ब्रह्मणो जगत्कर्तृत्वं, तर्हि सर्वे जंतवस्तदंशा जातास्ततस्तद् ब्रह्म स्वांशभूतांस्तान् जंतून स्वत एव कष्टं विनैव स्वसमीपे नेष्यति, तर्हि तेषाम् तदुद्ध्यानेन किम् ? यदि चेत् तत्प्रात्यै नीरागतादिकृत्यमावश्यकं ब्रह्मणश्च नीरागतादिकृत्ये प्रीतिस्तर्हि निष्क्रियत्वद्वारा तस्य जगत्कर्तृत्वं न सिध्यतीतिभावः ॥ २८-२९ ॥
१. विधेयं । २. ब्रह्मणः । ३. तत्तस्मात्कारणात् इह ब्रह्मणि ।