________________
सर्गः ।] श्रीमन्मेरुतुङ्गसूरिविरचितं भग्नं संधाय । किंरूपमनङ्गम् ? पशुपतिना-ईश्वरेण दुतं पीडितम् , पुनः किंरूपम् ? 'गूढमार्गे' मनसि 'शयानं' मनसि कृतविश्रामं मनोयोनित्वात्संकल्पयोनित्वाच्च, अन्योऽपि यः पीडितः केनापि भवति स गूढे प्रच्छन्ने मार्गे शेते । पुनः किंरूपम् ? तत्र 'अजय्ये' जेतुमशक्ये 'त्रिभुवनपतौ' श्रीनेमीशे 'अप्रभूष्णुं' असमर्थम् । क सति ? 'सख्युः' वसन्तस्य राज्ये जयति सति । पुनः क सति ? 'च' अन्यत् 'पुरुहे' प्रभूते 'अस्त्रजाते' शस्त्रसमूहे 'जातेऽपि' निष्पन्नेऽपि। कामस्यास्त्राणि कुसुमानि तेपु बहुष्वपि निष्पन्नेष्वित्यर्थः, तस्माद्भग्नं कामं दृशैव सज्जीकृत्य कृष्णान्तःपुर्यो नेमीशं प्रति वलिता इत्यर्थः । उपाजेकृत्वेति "उपाजेऽन्वाजे" (सि०३-१-१२) इति सूत्रेण विकल्पेन गतिसंज्ञा । अत्र पर्यायोक्तविशेषोक्तिविशेषश्शेषानुप्रासाः । एतावताऽर्थेन स्वामिनो निर्विकारत्वं तासां च कामविवर्धकत्वं ज्ञापितमिति पर्यायोक्तम् । कामस्य जयहेतुवसन्तपुष्पायुधादिकारणयोगेऽपि स्वामिनं प्रति जयहेतुकार्यानुत्पत्तिरिति विशेपोक्तिः, स्वामिनं प्रति वलनक्रियां कुर्वतीभिस्ताभिः कामस्य भग्नसंधानमशक्यं कृतमिति विशेषः, “अन्यत्प्रकुर्वतः कार्य-मशक्य. स्यान्यवस्तुनः । तथैव करणं चेति, विशेषत्रिविधः स्मृतः।" (का० प्र० १०, १३६) अतिशयोक्तिश्च ॥ १८ ॥
अथ ताः श्रीनेमिनं नानाक्रीडाभिर्यथा क्रीडयन्तीति तदाहकाचिच्चञ्चत्परिमलमिलल्लोलरोलम्बमालां
मालां बालारुणकिशलयः सर्वसूनैश्च क्लुप्ताम् । नेमे कण्ठे न्यधित स तया चाद्रिभिचापयष्ट्या
रेजे स्निग्धच्छविशितितनुः प्रावृषेण्यो यथा त्वम् ।।१९।। 'काचित्' कृष्णपत्नी नेमेः कण्ठे मालां 'न्यधित' न्यस्तवती । फिरूपां मालाम्? चश्चत्परिमलमिलल्लोलरोलम्बमालांरोलम्बा भ्रमराः। पुनः किंरूपाम् ? बालारुणकिशलयैः 'च' अन्यत् सर्वसूनैः क्लुप्तां