________________
जैनमेघदूतम् ।
[द्वितीय:
सूनानि - कुसुमानि । 'च' अन्यत् 'सः' भगवान् 'तया' मालया रेजे यथा 'प्रावृषेण्यः' वर्षाभवः त्वम् अद्रिभित्-इन्द्रः तस्य चापयष्टि:धनुर्यष्टिः तया राजसे । किंरूपो भगवान् त्वं च ? 'स्निग्धच्छविशितितनुः' शितिः - श्यामा, शेषं स्पष्टम् । अत्र परिकरदृष्टान्तानुप्रासाः। चश्वत्परिमलेत्यादि विशेषणानि मालाया इन्द्रधनुः सादृश्याय पञ्चवर्णत्वख्यापकानीति परिकरः ॥ १९ ॥
७२
श्रीखण्डस्य द्रवनवलवैर्नर्मकर्माणि विन्दु
बिन्दुन्यासं वपुषि विमले पत्रवल्लीलिलेख । पौष्पापीडं व्यधित च परा वासरे तारतारासारं गर्भस्थितशशधरं व्योम संदर्शयन्ती ॥ २० ॥
'परा' अन्या हरिवल्लभा, नेमेरिति पूर्वकाव्यस्थमधिकारादत्र लभ्यते, नेमेः विमले 'वपुषि' शरीरे पत्रवल्लीलिलेख । किं कृत्वा ? श्रीखण्डस्य 'द्रवनवलवैः' द्रवः - रसस्तस्य नवलवैः बिन्दून् न्यासं रचयित्वा । किंभूता सा ? नर्मकर्माणि 'विन्दु : ' वेत्तीत्येवंशीला | 'च' अन्यत् 'पौष्पापीडं' पुष्पसंबन्धि मुकुटं व्यधित । किं कुर्वती ? 'वासरे' दिवसे 'तारतारासारं ' ताराभिः - मनोज्ञाभिः ताराभिः - तारकाभिः सारं 'गर्भस्थितशशधरं मध्यस्थितचन्द्रं 'व्योम' आकाशं संदर्शयन्ती, अहो जनाः ! दिवसे तारकचन्द्रसहितं नभः पश्यतेति । भगवद्वपुः श्यामवर्ण नभः, श्रीखण्डबिन्दवः ताराः, पुष्पमुकुटः चन्द्रः । वेतीति विन्दुः “ विन्द्विच्छू” (सि०५-२-३४) उप्रत्ययः, विन्दुनिपातः । अत्र निदर्शनानुप्रासौ २० अन्या लोकोत्तर ! तनुमता रागपाशेन बद्धो
मोक्षं गासे कथमिति ? मितं सस्मितं भाषमाणा । व्यक्तं रक्तोत्पलविरचितेनैव दाना कटीरे काञ्चीव्याजात्प्रकृतिरिव तं चेतनेशं बबन्ध ॥ २१ ॥ 'अन्या' काचिद् हरिप्रिया 'व्यक्तं प्रकटं रक्तोत्पलविरचिते