________________
सर्गः । श्रीमन्मेरुतुङ्गसूरिविरचितं नैव 'दाना' मालया 'काञ्चीव्याजात्' मेखलामिषात् कटीरे 'त' भगवन्तं बबन्ध रक्तोत्पलमयी मेखलां तस्य कटीतटे बबन्धेत्यर्थः । किं कुर्वाणा ? इति 'मितं' स्तोकं 'सस्मितं' सहास्यं भाषमाणा । इतीति किम् ? हे लोकोत्तर ! 'तनुमता' मूर्तिमता रागपाशेन बद्धः सन् मोक्षं 'कथं गासे ?' कथं गच्छसि ?, अन्योऽपि यः पाशेन बद्धः स्यात् स कथं याति ? इति त्वमप्यनेन रागपाशेन बद्धो मोक्षं गन्तुं कथं शक्ष्यसि ? इत्यन्योक्तिः । किंरूपं तम् ? 'चेतनेशं चेतना:-आत्मानस्तेषां ईशं चेतनेशम् , केव ? 'प्रकृतिरिव' यथा प्रकृतिश्चेतनेशमात्मानं बध्नाति चेतना ज्ञानकला तस्या ईशमात्मानमिति । अत्र काव्यलिङ्गसमासोक्तिरूपकापडुत्युपमानानि ॥ २१ ।। काचिद्वामा जलद ! पिदधे चन्दनस्यन्दसिक्तैः
पतिन्यस्तैः सरसकुसुमैदक्षमुख्यस्य वक्षः। कामोन्मुक्तैरिव जगदुरो विध्यमानैरखण्डैः ।। __ काण्डै त्तुं तदलमनलंभूष्णुभावाबहिःस्थैः ।। २२ ॥
हे जलद ! काचिन् 'वामा' स्त्री 'दक्षमुख्यस्य' श्रीनेमिनः 'वक्षः' हृदयं 'पङ्गिन्यस्तैः' श्रेणिरचितैः सरसकुसुमैः 'पिदधे आच्छादितवती । किंरूपैः सरसकुसुमैः ? चन्दनस्य स्यन्देन रसेन सिक्तैः । उत्प्रेक्ष्यते-कामोन्मुक्तैरखण्डैः 'काण्डैः' बाणैरिव । किंरूपैः काण्डैः ? 'जगदुरः' विश्वहृदयं विध्यमानैः । पुनः किंरूपैः ? 'तत्' श्रीनेमिहृदयं भेत्तुमलमत्यर्थम् 'अनलंभूष्णुभावात् असमर्थत्वात् 'बहिःस्थैः' बहिःस्थितैः । एतानि कुसुमानि कामस्य बाणा जगतो हृदयं विध्यन्तोऽपि भगवतो हृदयं भेत्तुं न शक्नुवन्तीति बहिः स्थिताः। पिदधे इत्यत्र “वाऽवाप्योस्तनिक्रीधामहोर्वपी” (सि० ३-२-१५६) अनेनापेरकारलोपः। विध्यमानरित्यत्र 'व्यधंच्' ताडने विध्यन्तीत्येवंशक्तयो विध्यमानाः, "वयः शक्तिशीले” (सि० ५-२-२४) इति शानप्रत्ययः, आन, "दि.