________________
७४
जैनमेघदूतम् ।
[द्वितीय:
"
वादेः श्यः” (सि० ३-४-७२ ) श्यप्रत्ययः, “ज्याव्यधः क्ङिति ” ( सि० ४-१ - ८१) वृत्, “अतो म आने” ( सि० ४ - ४ - ११४ ) मोऽन्त इति । अत्रोत्प्रेक्षाऽनुप्रासौ ॥ २२ ॥ पौष्पापीडः शितिशतदलैः क्लृप्तकर्णावतंसः कण्ठन्यञ्चद्विचकिललुलन्मालभारी सलीलम् । तत्केयूरो बकुलवलयः पद्मिनीतन्तुवेदी
रेजे मूर्त्तात्प्रति मम पतिः पुष्पितात्पारिजातात् ॥२३॥ हे मेघ ! मम पतिर्मूर्त्तात् ' पुष्पितात् पारिजातात् प्रति रेजे' पुष्पितस्य पारिजातस्य कल्पवृक्षस्य सदृशो राजते स्मेत्यर्थः । किंरूपः पतिः ? ' पौष्पापीडः' पुष्पसंबन्धी आपीडो मुकुटो यस्य सः । (तथा) 'शितिशतदलै : ' शितीनि श्यामानि शतदलानि कमलानि तैः क्लमो रचितः कर्णावतंसः कर्णाभरणं यस्य, सलीलं यथा भवति 'कण्ठन्यञ्चद्विचकिललुलन्मालभारी' कण्ठे न्यश्चन्तीं नम्रीभवन्तीं विचकिलो मल्लिका तस्या (स्य) लुलन्तीं लुठन्तीं मालां बिभ्रती ( भर्ती) त्येवंशीलः, "अजातेः शीले" (सि० ५-११५४) णिन्, “मालेीकेष्टकस्यान्तेऽपि भारितूलिचिते” (सि० २-४-१०२ ) इति मालाया हवः । पुनः किंरूपः ? ' तत्केयूर : ' तस्य विचकिलस्य संबन्धिनी केयूरे यस्य, ( तथा ) बकुल: केसरः तत्संबन्धीनि वलयानि यस्य, (तथा) पद्मिनीतन्तुसत्का वेदीः मुद्रिका यस्य सः । एवं सर्वाङ्गेषु सर्वाभरणस्थानेषु पुष्पजातिविभूषितत्वान्मूर्त्तः पुष्पितः पारिजात इव भगवान् रराजेत्यर्थः । पारिजातादित्यत्र “यतः प्रतिनिधिप्रतिदाने प्रतिना" ( सि० २ -२-७२ ) इत्यनेन प्रतिनिध्यर्थे प्रतिना योगे पञ्चमी, प्रतिनिधिर्मुख्यसदृशोऽर्थस्तदर्थे । अत्र निदर्शनापरिकरानुप्रासाः ॥ २३ ॥ धन्या मन्ये जलधर ! हरेरेव भार्याः स याभि
ईष्टो दृग्भः परिजनमनश्छन्द वृत्त्यापि खेलन् ।