________________
सर्ग: ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
कस्माजज्ञे पुनरियमहं मन्दभाग्या स्त्रिचेली
या तस्यैवं स्मरणमपि हा ! मूर्छनाप्त्या लभे न ॥ २४ ॥
७५
"
I
हे जलधर ! अहं 'हरेरेव' कृष्णस्यैव भार्या धन्या मन्ये, याभिः 'स' भगवान् 'परिजनमनश्छन्दवृत्त्याऽपि परिवारमनोऽमि - प्रायेणापि 'खेलन' क्रीडन् 'दृग्भिः' लोचनैः दृष्टः । यतः स्वामी ज्ञानत्रयसमन्वितः परब्रह्मास्वादसादरो गार्हस्थोऽपि क्रीडायाम( गृहस्थोऽपि क्रीडाम ) निच्छुरेव परं परिवारप्रीौं क्रीडादिकं करोतीति । पुनरियमहं 'कस्माज्जज्ञे' कुतो हेतोर्जाता ? इयमित्यनेन मानसप्रत्यक्षेणात्मानं पुरः पश्यन्तीव परेभ्यो हीनत्वेन पृथक् करोति । किंरूपाऽहम् ? मन्दभाग्या । पुनः किंरूपा ? 'स्त्रिचेली' निन्द्या स्त्री त्रिवेली । 'हा' इति खेदे | 'या' अहं 'एवं' अमुना प्रकारेण 'तस्य' भगवतः स्मरणमपि मूर्छनाम्या न लभे यावत्स्मरणं करोमि तावन्मूर्छा समायातीत्यर्थः । स्त्रिचेलीति निन्द्या स्त्री स्त्रिचेली निन्द्या (न्दा )वाची चेलद - शब्दपुरः, टानुबन्धित्वात् “अणभेये ०” (सि० २-४-२० ) इति ङी, "नवैकस्वराणाम् ” ( सि० ३-२-६६ ) इति ह्रस्वः । अत्र निदर्शनाऽऽक्षेपभाविकानुप्रासपर्यायोक्ताद्याः, तत्र निदर्शनालक्षणे अत्र प्रस्तुतप्रशंसा, धन्या मन्ये इति कस्मादिति (आक्षेपः) "निषेधो वक्तुमिष्टस्य, यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।। " (का० प्र०१० - १०६ ) इति । तदाऽमूर्च्छिताऽपि यदहं स्मरणं कुर्वती मूर्छा प्राप्स्याम्येवेति भाविकम्, सर्वेणार्थेन विरहस्यैवाधिक्यज्ञापनात् पर्यायोक्तम् ॥ २४ ॥
जल्पन्त्येवं पुनरपि नवीभूतशोकान्धिमना तूष्णीभावं खतनुमसुचत् साऽऽनन्दीमुखीव । तत्रं तावत् किमिति निगदच्चन्दनाम्भश्छटाभिः सेचं सेचं खरुमिव गुरुर्वाग्भिराबूबुधत्ताम् ॥ २५ ॥