________________
७६
जैनमेघदूतम् ।
[द्वितीयः
'सा' राजीमती एवं जल्पन्ती सती पुनरपि 'खतनुममुचत्' मूर्छया निजदेहं त्यक्तवती । किं कृत्वा ? ' तूष्णींभाव' मौनवती भूत्वा । किंभूता ? 'नवीभूतशोकाब्धिमना' पूर्व स्वामिनो वसन्तक्रीडादिवर्णनरसात् शोकान्धिः शुष्कप्राय आसीत्, तदा भगवतः स्मरणबाहुल्य जागरित संस्कारेण अनवो नवो भूतो नवीभूतः च्विप्रत्यय इत्यादि । उत्प्रेक्ष्यते - 'आप्तनन्दीमुखीव' प्राप्तनिद्रेव । तावत् 'तनं' परिकरः ताम् 'आबूबुधत्' सचेतनामकरोत् । किं कुर्वत् ? 'किमिति' आकुलत्वेन किं जातं किं जातमिति वाच्ये किं किमिति निगदत् । किं कृत्वा ? ' चन्दनाम्भश्छटाभिः' चन्दनजलधाराभिः 'सेचं सेचं' सिक्त्वा सिक्त्वा । क इव ? ' गुरुरिव' यथा गुरुः 'खरुं' निषिद्धैकरुचिं वाग्भिः बोधयति सदाचारे प्रवर्तयति । एतेन राजीमती वृत्तान्तं कथयन्ती पुनरपि पूर्वदुःखजागरणेन शोकाक्रान्ता मूर्छिता पुनश्चन्दनच्छटासेकात् सखीभिः सचेतना कृता । तूष्णींभवनं पूर्व " तूष्णीमा ” ( सि० ५-४-८७ ) इति णम् प्रत्ययः । सेचं सेचमिति सेचनं सेचनं पूर्वं "रुणं चाऽऽभीक्ष्ण्ये" ( सि० ५-४-४८ ) इति ख्णम् प्रत्ययः अम् इति । अत्र जात्युपमानुप्रासाः । मूर्छादिचेष्टा वर्णनाज्जातिः || २५ ॥
अर्धोक्तायाः स्वचरितततेः स्वमवत्साऽथ सद्यः संजानत्यप्यनवहितधीष्टसुप्तोत्थितेव ।
संपश्यन्ती विरहविवशा शून्यमाशाः कदाशापाशामुक्ता मुदिरमुदितं पर्यभाषिष्ट भूयः ॥ २६ ॥
'अथ' अनन्तरं 'सा' राजीमती 'भूय:' पुनरपि उदितं 'मुदिरं ' मेघं परि अभाषिष्ट । किंरूपा ? 'स्वचरितततेः' स्वावदातपङ्क्तेः 'अर्धोक्तायाः' अर्धजल्पितायाः स्वप्नवत् 'संजानत्यपि स्मरन्त्यपि, 'अनवहितधीः' अनवहिता - असावधाना धीर्यस्याः सा । उत्प्रेक्ष्यते - 'व्युष्टसुप्तोत्थितेव' व्युष्टे प्रभाते सुप्ता चासौ उत्थिता च