________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ७७ सुप्तोत्थिता, यथा रात्रिजागरणात् प्रभाते सुप्तोत्थिताऽसावधाना स्यात् असंपूर्णनिद्रत्वात् । किं कुर्वती ? शून्यं यथा भवति 'आशा' दिशः संपश्यन्ती । किंरूपा ? 'विरह विवशा' विरहविह्वला । पुनः किंरूपा ? कदाशा कुत्सिताऽऽशा वाञ्छा सैव पाशस्तेन आमुक्ता बद्धा । स्वचरितततेरित्यत्र "स्मृत्यर्थदयेशः” (सि० २-२-११) इति षष्ठी । कदाशेति कुत्सिता आशा कदाशा "कोः कत्तत्पुरुषे” (सि० ३-२-१३०) इति कदादेशः । मुदिरमित्यत्र भागिनि च प्रतिपर्यनुभिः' (सि० २-२-३७) इति द्वितीया । अत्रोपमानुप्रासजातिसङ्कराः ॥ २६ ॥ हहो ! मोहस्खलितवचनां मेघ! मा मामुपेक्षा
पात्रं काढुन हि यदधरेवास्म्यनभ्याशमित्या । दुःस्थावस्थां विधिविलसितैः प्रापिता या विशेषात
श्रोतव्याऽसौ तव मम कथा विश्वविश्वोपकर्तुः ॥ २७ ॥
हो मेघ ! त्वं मां उपेक्षापात्रं मा कार्षीः । किंरूपां माम् ? 'मोहस्खलितवचनां' मोहेन मूर्छया स्खलितं वचनं यस्याः सा ताम् , इयं जल्पन्ती स्खलिताऽतोऽस्या वचनं किं श्रूयते ? इत्यहं नोपेक्षणीया । यद् अहं 'अधरेव' हीनवादिनीव 'अनभ्याशमित्या नास्मि' अभ्याशं समीपम् , न अभ्याशं अनभ्याशम् , 'इण्क् गतौ' ईयते गम्यते इति इत्यं, "दृवृगस्तुजुषेतिशासः" (सि० ५-१-४०) क्यप्रत्ययः, "हस्वस्य तः पित्कृति” (सि० ४-४-११३) तोऽन्तः, ततोऽनभ्याशं दूरं इत्यं गन्तव्यमस्याः साऽनभ्याशमित्या, "लोकम्पृणमध्यन्दिनानभ्याशमित्यम्” (सि० ३-२-११३) इति सूत्रेण मोऽन्तो निपातश्च, ततोऽयमर्थःयस्माहूरे गम्यते यस्य समीपे न स्थीयते सोऽनभ्याशमित्यः, अहं त्वेवंविधा नास्मि, केव ? 'अधरेव' यथाऽधरा हीनवादिनी स्त्री एवंविधा स्यात्तथाऽहमेवंविधा नास्मि, मूर्छया स्खलिता,