________________
७८ जैनमेघदूतम् ।
[द्वितीयः परमप्रेतनं भूयो वक्ष्ये । असौ मम कथा तव विशेषतः श्रोतव्या । किंरूपाया मम ? विधिविलसितैर्दुःस्थावस्था प्रापितायाः । किवि. शिष्टस्य तव ? विश्वविश्वोपकर्तुः यः सकलजगत्परोपकारी स्यात्स दुःस्थवार्ता विशेषात् शृणोति। "कृत्यस्य वा” (सि० २-२-८८) अनेन सूत्रेण तवेति षष्ठी । अत्रोपमानुप्रासकाव्यलिङ्गाः ॥ २७ ॥ वासन्तीं तां श्रियमुपवने साधु निर्विश्य कान्तां
लोकम्प्रीणानणुगुणभृदप्यर्दितस्तस्य सख्या । क्लृप्ताकल्पस्तदिषुभिरुदाच्छिद्य रोषादिवात्तै_ विष्वक्सेनो न्यविशत पुरीं द्वारकां नेमिदृष्टिः ॥ २८॥
'विष्वक्सेनः' कृष्णो द्वारकां पुरी 'न्यविशत' प्रविवेश। किं कृत्वा? 'उपवने' क्रीडावने तां 'वासन्ती' वसन्तसत्कां 'कान्ता' मनोज्ञां श्रियं साधु यथा भवति 'निर्विश्य' भुक्त्वा, श्रियं लक्ष्मी ‘कान्तां' प्रियां 'निर्विश्य' भुक्त्वा इत्यर्थान्तरं वाच्यम् । किविशिष्टः ? 'तस्य' वसन्तस्य 'सख्या' कामेन अर्दितः । कदाचिनिर्गुणो भविष्यतीत्याह-लोकम्प्रीणा लोकप्रीतिकारका अनणवो गुरवो ये गुणास्तान बिभर्तीति । पुनः किंरूपः ? 'तदिषुभिः' तस्य कामस्य इषुभिः वाणैः कुमुमैः 'क्लप्ताकल्पः' क्लृप्तो रचित आकल्पः शृङ्गारो येन सः। किंरूपैस्तदिषुभिः ? उत्प्रेक्ष्यते-रोषात् 'उदा. च्छिद्य उद्दाल्य 'आत्तैः' गृहीतैरिव । यत्कामेनाहं पीडितोऽतस्तेन कोपेन कुसुमरूपास्तद्वाणा उद्दाल्य गृहीताः । पुनः किंरूपो विष्वक्सेनः ? 'नेमिदृष्टिः' नेमौ श्रीनेमिनाथे दृष्टिर्यस्य सः । पक्षे नेमिश्चक्रधारा, अन्यस्यापि यस्य वैरिणा सह वैरं स्यात् तस्य दृष्टिः शस्त्रे भवतीति व्यङ्ग्यम् । इषुशब्दस्त्रिषु लिङ्गेषु वर्तते खतस्त्रिलिङ्गे "षष्टिरेण्विषु" (हैमलिङ्गानुशासन ६ श्लो०) इति भणनात् । न्यविशतेति "निविशः” (सि. ३-३-२४) इत्यात्मनेपदमिति । षसमासोक्त्युत्प्रेक्षालङ्काराः ॥२८॥