________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
सख्युर्दोषात्कुसुमधनुषः शान्तशत्रोरनिष्टे तस्येशस्य स्वयमपसृते पुष्पकाले हियेव । आगास्तेव स्वफलमुपदीकर्तुमात्मोपशाय
1
स्थायी भृत्यः समयगतिवित् सप्रतापस्तपोऽपि ॥ २९॥ 'तपोऽपि ' उष्णकालोऽपि स्वफलं उपदीकर्तुम् 'आगास्त' आगच्छत् । स्वफलमिति जातावेकवचनम् । किंरूपस्तपः ? उत्प्रेक्ष्यते'आत्मोपशास्थायी भृत्य इव' आत्मन उपशाये वारके तिष्ठतीत्येवंशीलः । राज्ञो हि भृत्या निजनिजवारके सेवार्थमागच्छन्ति । क्व सति ? 'पुष्पकाले' वसन्त ऋतौ 'स्वयम्' आत्मना 'अपसृते' गते सति । कथं स्वयं वसन्तो गतः ? अत्राह, उत्प्रेक्ष्यते - 'हिया' लज्जया इव । का लज्जा ? इति विशेषणद्वारेण कारणमाह- किंविशिष्टे पुष्पकाले ? कुसुमधनुषः 'सख्युः' मित्रस्य दोषात् 'तस्येशस्य' श्रीनेमिनः 'अरिष्टे' अप्रिये, कामस्य को दोषः ? इत्याह- किंरूपस्य कामस्य ? ' शान्तशत्रोः ' शान्तानां निर्विकाराणां शत्रुः वैरी, अथवा शान्ता निर्विकारा एव शत्रवो यस्येति दोषः । भगवान् शान्तः, कामस्तु शान्तशत्रुः, अतस्तेन कामेन मैत्र्याद्वसन्तोऽपि सापराधः, वैरिगृह्यत्वात् । भगवतो वा विशेषणम् । किंविशिष्टस्येशस्य ? 'शान्त - शत्रोः शान्ताः शत्रवो यस्य । किंरूपस्तपः ? 'समयगतिवित्' समयः ऋतुरूपः कालस्तस्य गतिं गमनं विन्दति लभते वेत्ति वा समयगतिवित् । पक्षे समयो राजसेवाऽवसरः तस्मिन् गतिं गमनं वेतीति समयगतिवित् । पुनः किंरूपः ? 'सप्रतापः प्रकृष्टः ताप औष्ण्यं तेन सह वर्तते, पक्षे प्रतापवान् । आगास्तेति 'गाङ् गतौ' इति धातो रूपम् । आत्मोपशायेति 'शीङ्क स्वप्ने' शी उपपूर्वः, उपशयनमुपशायः " व्युपाच्छीङ : " ( सि० ५-३ - ७७ ) घन् प्रत्यय इत्यादि । " विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमः " । ( कां. ६-१३९) इति (हैम ) नाममालायाम् । काव्यलिङ्गोत्प्रेक्षाद्वयश्लेषजात्यलङ्काराः ॥ २९ ॥
७९