________________
जैनमेघदूतम् ।
तेजोवीर्य पुरु रुचिपतेरुत्तरामेव काष्ठां श्रेयःपुष्टां परि विचरतः प्राप्तमैधिष्ट शश्वत् । तापोतप्तानपि तनुमतः प्रीणयन्ती तुषारैवतैर्ज्यानिं प्रतिदिनमगाद्यामिनी तत्तु चित्रम् ॥ ३० ॥
८०
[द्वितीयः
1
"
'रुचिपतेः' सूर्यस्य 'पुरु' प्रभूतं ' शश्वत्' निरन्तरं 'तेजोवीर्यं' तेजोबलम् 'ऐधिष्ट' अवर्धिष्ट । किंकुर्वतः ? उत्तरामेव 'काष्ठां दिशं 'परि विचरतः ' उदीचीं दिशं प्रति चलतः । तत् 'प्राप्तं युक्तम्, यत् अन्योऽपि उत्तरां उत्कृष्टां काष्ठां क्रियां परि विचरति तस्य तेजोवीर्य वर्धते । किंरूपां काष्ठाम् ? 'श्रेयःपुष्टां श्रेयसा कल्याणेन पुष्टाम्, उत्तरा हि श्रेयः कारिणी । पक्षे श्रेयसा पुण्येन पुष्टाम् । 'तु' पुनः तत् 'चित्रम्' आश्चर्यं यत् प्रतिदिनं 'यामिनी' रात्रिः 'ज्यानिं' हानिं अगात् किं कुर्वती ? तापोत्तप्तान् ' तनुमतः ' प्राणिनः ' तुषारै: ' शीतलैः वातैः प्रीणयन्त्यपि । दिने हि ग्रीष्मे धर्मणा प्राणिनस्तप्ता भवन्ति, निशायां शीतलवातेन प्रीयन्ते, ततो रात्रिस्तापतप्तप्राणिप्रीणनं पुण्यं कुर्वाणा यद् अहीयत तदाश्चर्यम्, पुण्यकर्तुर्वृद्धिभावात् । अत्र समविषमसमासोक्तिश्लेषानुप्रासः । " समं योग्यतया योगो यदि संभावितः कचित् । " ( का०प्र०१०, १२५ ) पूर्वार्धे, उत्तरार्धे - "क्वचिद् यदतिवैधर्म्यान श्लेषो घटनामियात् । कर्त्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत् स एष विषमो मतः ।। " ( का० प्र०१०, १२६ - १२७ ) इति ॥ ३० ॥
1
वृद्धिं मेजे दिवसमनिशं खप्रतापेन सत्रा शीतत्वेनापि च तलिनतां वासतेयी विवेश । नैतन्नोद्यं विमलरुचयः प्रायशो हि श्वयन्ति
क्षीयन्ते चाभ्यधिगततमः स्तोमभावाः स्वभावात् ।। ३१ ।। 'अनिशं' निरन्तरं दिवसं स्वप्रतापेन 'सत्रा' साकं वृद्धिं भेजे ।