________________
सर्ग: ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
८१
अपि च 'वासतेयी' रात्रिः शीतत्वेन सत्रा ' तलिनतां' तुच्छतां विवेश । दिवसस्तापश्च वृद्धौ, शीतत्वं रात्रिश्च तुच्छे जाते इत्यर्थः । एतत्सिद्ध्यै अर्थान्तरं न्यस्यति - एतत् 'न नोद्यं' नाश्वर्यम्, 'हि' यस्मात् 'प्रायश:' प्रायो विमलरुचयः 'श्वयन्ति' वर्धन्ते, विमला निर्मला परद्रोहादिवर्जिता रुचिः इच्छा येषां ते विमलरुचयः, दिवसमपि विमलरुचि विमलकान्ति, अतस्तस्य वृद्धिर्युक्ता । 'च' अन्यत् 'अभ्यधिगततमः स्तोमभावाः स्वभावात् क्षीयन्ते' अभ्यधिगतः प्राप्तः तमः स्तोमः पापसमूहो येन एवंविधो भावः चित्ताभिप्रायो येषां ते अभ्यधिगततमः स्तोमभावाः, रात्रिरपि अभ्यधिगतः तमःस्तोमस्य अन्धकारसमूहस्य भावः सत्ता यया सा अभ्यधिगततमःस्तोमभावा, अतस्तस्या हानिर्युक्ता । दिवसशब्दः पुंनपुंसकः । स्वप्रतापेनेति सहार्थे तृतीया । अत्र सहोत्त्यर्थान्तरन्यासजात्यलङ्काराः ॥ ३१ ॥
श्रोतस्विन्याः सिकतिलतटेनाग्निमिन्धेन भानोर्भासां स्पर्शादपि पथि चरदे हिनो देहिरे धिक् । यद्वाऽऽसक्तः प्रकृतिकुटिलाखाचरेनिम्नगासु
प्रायोऽश्रेयो मृदुरपि न कः स्वल्पमप्युष्मयोगे ॥ ३२ ॥ 'श्रोतस्विन्याः ' नद्याः 'सिकतिलतटेन' वालुकाकुलपुलिनेन 'पथि चरद्देहिनः' पथि मार्गे चरन्तो देहिनः प्राणिनो धिक् देहिरे दुग्धाः । किंविशिष्टेन सिकतिलतटेन ? 'भानोः' सूर्यस्य ' भासां' कान्तीनां स्पर्शादपि 'अग्निमिन्धेन' अग्निवत् ज्वलता सूर्यकरात्युष्णवालुकाभृततटे सञ्चरन्तः पान्थाद्या दग्धा इत्यर्थः । अत्रार्थान्तरन्यासमाह - ' यद्वा' अथवा 'प्रकृतिकुटिलासु' प्रकृतिवक्रासु 'निम्नगासु' स्त्रीषु आसक्तः कः पुमान् 'मृदुरपि' सुकुमालोऽपि 'स्वल्पमपि ' स्तोकमपि 'ऊष्मण: ' प्रतापस्य योगे सति प्राय: 'अश्रेयः' अशुभं नाचरेत् ? अपि तु सर्वोऽप्याचरेत् । ततो मृदु कोमलं तटमपि निम्नगासु