________________
जैनमेघदूतम् ।
[द्वितीयः स्त्रीषु सक्तं ऊष्मयोगे तापयोगे सति यद्देहिदहनलक्षणमशुभमाचरति तत्कि चित्रम् ? । सिकता विद्यन्ते यत्र तत् सिकतिलम् , प्रज्ञादेरिलः इलप्रत्ययः । अग्निवत् इन्द्धे-दीप्यते इत्यग्निमिन्धम् , पचाद्यच , "भ्राष्ट्राग्नेरिन्द्धे” (सि० ३-२-११४) इति मोऽन्तः । अत्रोदात्तश्लेषार्थान्तरन्यासाः । ऊष्मण आधिक्यदर्शनादुदात्तम् ।। ३२ ।। लब्ध्वा तेजः खरतरकरैर्गोपतिः पीडयित्वा
तोयस्थानान्यतिघनरसानाददानः प्रतापी । निन्ये हानि खजननलिनास्थानरूपाणि लोके
प्राप्तैश्वयं रमयति यतो गृद्धिबुद्धिर्विशेषात् ॥ ३३ ॥ 'गोपतिः' सूर्यः तेजो लब्ध्वा 'स्वजननलिनास्थानरूपाणि तोय. स्थानानि हानि निन्ये' स्वजनानि स्वगोत्राणि, कमलबन्धुत्वात्सूर्यस्य. यानि नलिनानि कमलानि तेपामास्थानरूपाणि निवासरूपाणि तोय स्थानानि जलस्थानानि हानि निन्ये, शोषितानीत्यर्थः । किं कुर्वाणः' 'खरतरकरैः' कठोरतरकिरणैः अत्यर्थ घनरसान्' जलानि 'आददानः गृह्णानः । अन्योऽपि गोपती राजा तेजसा वर्धमानः कठोरदण्डै पूर्वमन्यान् पीडयित्वा 'अतिघनरसान्' अतिघनान् रसान् । नानि गृह्णन् स्वजनगृहाण्यपि हानि नयति । “रसः स्वादे जले वीर्ये रने वृद्धयौषधे धने” इति रसशब्देन धनम् । 'यतः' यस्मात्का रणात् 'गृद्धिबुद्धिः' लोभबुद्धिः प्रापैश्वर्य पुरुषं विशेषात् 'रमर्या स्वायत्तं करोति, ऐश्वर्ये हि विशेषालोभो वर्धते । श्लेषसमासोत्ति काव्यलिङ्गार्थान्तरन्यासाः ॥ ३३ ॥ तापव्यापाकुलितजनतापञ्चशाखे तुषारान्
संवर्षद्भिः पवनललितैस्तालवृन्तैर्विरेजे । धर्तुः शैत्योन्नततरुमिदे वर्मलक्षाणि धर्म
व्यालस्येव सुतमदकणैः कर्णतालैर्विलोलैः ॥ ३४ ॥ 'तापव्यापाकुलितजनतापञ्चशाखे' वापातलोकहस्ते 'तालवृन्