________________
सर्गः 1]
श्रीमन्मेरुतुङ्गसूरिविरचितं
८३
व्यजनैः 'विरेजे' शुशुभे । किंरूपैस्तालवृन्तैः ? ' तुषारान्' जलकणान् संवर्षद्भिः 'पवनलुलितैः' वायुकम्पितैः । पुनः किंरूपैः ? उत्प्रेक्ष्यते - 'घर्मव्यालस्य' धर्मदुष्टगजस्य 'विलोलैः' चञ्चलैः 'कर्णतालैः' कर्णालैरिव । किंरूपस्य धर्मव्यालस्य ? शैत्योन्नततरुभिदे 'वर्ष्मलक्षाण' शरीरलक्षाणि 'धर्तुः' दधतः, शैत्यमेव उन्नतस्तरुस्तस्य भिदे भिदायै । किंरूपैः कर्णतालैः ? 'स्स्रुतमदकणैः' स्रुताः क्षरिता मदकणा यैस्ते तै:, अतो जलकणवर्षिणो वायुकम्पितास्तालवृन्ता एवोत्प्रेक्ष्यन्ते शैत्यतरुभिदे कृतबहुरूपस्य धर्मदुष्टगजस्य मदकणवर्षिणचञ्चलाः कर्णताला इव । अत्र परिकररूप कोत्प्रेक्षानुप्रासाः ||३४||
संतापाढ्यः प्रखरकर भीजतदोषोदयेच्छस्वष्णापात्रं जडकृतर तिर्दीर्घनिद्राभिलाषी । राजन्वत्यप्यवनिवलयेऽद्भ्र्दाहे निदाघेsarभूयिष्टानलसविलसद्धर्मशर्माऽपि लोकः ।। ३५ ।
'अदा' महादाहे 'निदाघे' ग्रीष्मे लोक एवंविधोऽबोभूयष्टोऽत्यन्तमभूत् । किंरूपो लोकः ? 'अनलसविलसद्धर्मशर्मा' अनलसं सोद्यमं विलसन धर्मः पुण्यं शर्म सुखं च यस्य सः धर्मशर्मसहितोऽपि ( इति यावत् ) । क्व सति ? 'अवनिवलये ' पृथ्वीवलये 'राजन्वत्यपि शोभनो राजा यस्मिन्नसौ राजन्वान् तस्मिन् । किंरूपो लोकः ? सन्तापेन उद्वेगेन आढ्यः । यो लोकोऽनलसविलसद्धर्मशर्मा भवति स सन्तापाढ्यः कथम् ? इति विरोधः, अथ विरोधपरिहारमाह-सं सामस्त्येन तापेन आढ्यः । ' प्रखरकरभी:' प्रखरात् अतिकठोरान् करात् दण्डात् बिभेतीति प्रखरकरभीः, पक्षेऽतिकठोरेभ्यः करेभ्यो रविकिरणेभ्यो बिभेतीति । जाता दोषाणां द्रोहमदमात्सर्याणां उदये इच्छा यस्य सः, पक्षे जाता दोषोदये रात्र्युदये इच्छा यस्य सः । तृष्णायाः लोभस्य पात्रम्, पक्षे तृष्णायाः पिपासायाः पात्रम् । तथा जडेषु मूर्खेषु