________________
८४
जैनमेघदूतम् ।
[द्विती कृता रतिर्येन सः, पक्षे जले कृता रतिर्येन सः। दीर्घनिद्रां मर अभिलषतीति, पक्षे दीर्घा बह्रीं निद्रामभिलषतीति, ग्रीष्मे निद्राप्राचुर्य स्यात् । शोभनो राजा यस्मिन् स राजन्वान् “रा न्वान् सुराज्ञि” (सि० २-१-९८) इति निपातः । अबोभूरि टेति चेक्रीयतान्तस्य भूधातोरद्यतनीतप्रत्यये रूपम् । अत्र परिक विरोधश्लेषाः ॥ ३५ ॥ ऊष्मोत्कर्षान्न सुखमपुषत् सौधमाध्यन्दिनोर्वी
लुकास्तोकोदयदरतितः सौधमूर्धाधिवासः। दूरीकृत्य द्वयमिति जले केलिकामः सनेमिः
शौरिीलोपवनमसरत्तूरसंहृतपौरः ॥३६ ॥ 'शौरिः' विष्णुः 'लीलोपवन' क्रीडावनं असरत् । किंरूप शौरिः ? ‘सनेमिः' नेमिसहितः । पुनः किंरूपः ? 'तूरसंहूतपौर तूरैः वाद्यैः संहूताः पौराः नागरा येन सः । अतो वाद्यरवं श्रुत्व लोका अपि तत्र गताः। पुनः किंविशिष्टः शौरिः ? इति द्वयं सौधमध्य गृहोर्ध्ववासलक्षणं 'रीकृत्य' परिहत्य जले 'केलिकामः' केलं कामोऽभिलाषो यस्य सः । इतीति किम् ? 'सौधमध्यन्दिनोर्व आवासमध्यभूमिः 'ऊष्मोत्कर्षान्' धर्मप्राचुर्यात् सुखं न अपुषत् 'सौधमूर्धाधिवासः' सौधोपरितनभूमिः 'लुकास्तोकोदयदरतितःसुर नापुषत्' लूकातोऽस्तोका बह्वी उदयन्ती उत्पद्यमाना अरति तस्याः सकाशात् । सौधमध्ये तापव्यापः, सौधोपरि लूकाक्लेश इति द्वयं परिहृत्य जले क्रीडितुं श्रीकृष्णः श्रीनेमिना सह सपौर लोकः क्रीडावनमगादित्यर्थः । अपुषदित्यत्र "लदियुतादि पुष्यादेः (सि० ३-४-६४) इति अङ् । सौधमाध्यन्दिनोर्वी मध्ये भर माध्यन्दिनी "मध्यादिनण्णेया मोऽन्तश्च" (सि० ६-३-१२६ दिनण्प्रत्ययः, वृद्धिः, डी, माध्यन्दिनी चासौ उर्वी च मा न्दिनोर्वी, "पुंवत्कर्मधारये" (सि० ३-२-५७) पुंवद्भावः अत्र काव्यलिङ्गपर्यायोक्तसहोत्यलङ्काराः ॥ ३६॥