________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
ज्येष्ठं कृत्वा पुर इव भुजनत्रसालै रसालैः सालैग्रीष्मः प्रमदवनभूमध्यदेशप्रवेशे । पुञ्जीभूता भुवि विगलनाद्भारतार्धत्रिलोकीलीलापत्योः स्वफलपटलीः प्राभृतेऽचीकरच्च ॥ ३७ ॥
ટક
'श्रीष्मः' उष्णर्तुः भारतार्धत्रिलोकीलीलापत्योः प्रमदवनभूमध्यदेशप्रवेशे रसालैः 'सालै: ' सहकारवृक्षैः स्वफलपटली: 'प्राभृते' पदायां अचीकरत्, 'चः' अवधारणे, रसालसाला : स्वफलपटली: प्राभृते कुर्वन्ति तान् कुर्वतो ग्रीष्मः प्रायुङ्क । भारतार्धलीलापतिः श्रीकृष्णः, त्रिलोकीलीलापतिः श्रीनेमिः तयोः । यत्र राज्ञोऽन्तःपुर्यः क्रीडन्ति तत् प्रमदवनं तस्य भुवो मध्यप्रदेशस्तत्र प्रवेशे । किंविशिष्टै रमालैः ? भुजा इवाचरन्त्यो नम्राः सालाः शाखा येषां ते तैः । किं कृत्वा ? ' ज्येष्ठं' ज्येष्ठमासं 'पुर इव' अग्रे इव कृत्वा, ज्येष्ठाषाढमासौ हि ग्रीष्म: । किंभूताः स्वफलपटली: ? 'भुवि' पृथिव्यां विगलनात् 'पुञ्जीभूताः ' राशीभूताः । अन्यस्यापि राज्ञः प्रवेशे ज्येष्ठं वृद्धं पुरस्कृत्य फलादीन्युपदीक्रियन्ते । भुजा इवाचरन्तीति “कर्तुः क्विप्” (सि० ३ - ४ - २५ ) किप्प्रत्ययः, "अप्रयोगीत् ” ( सि० १- १ - ३७ ) भुजन्तीति वर्तमाने "शत्रानशावेष्यति तु सस्यौ” ( सि० ५-२-२० ) शतृप्रत्ययः । अत्रोपमाश्लेषसमासोक्तिपर्यायोक्तानि । अखण्डकाव्यवाक्येनाम्राणां परिपक्कफलत्वं दर्शितमिति पर्यायोक्तम् ॥ ३७ ॥
दर्श दर्श फलितफलदान पाकिमं पीतलत्वं
बिभ्रद्धभ्रुः सरसमकृशं वानशालाटवान्यत् । गर्जद्गर्जः फलमथ ललौ लीलया नाश्रवार्थ
सारग्रन्थान् कविरिव सुधीः सद्गुणं सूक्तजातम् ॥ ३८ ॥
'अथ' अनन्तरं 'बभ्रुः' कृष्णः 'फलितफलदान' फलितवृक्षान् "दर्श दर्शम् ' आभीक्ष्ण्येन दृष्ट्वा लीलया फलं ललौ । किंरूपम् ?