________________
जैनमेघदूतम् । [द्वितीयः प्रेयसी रोहिण्याद्याः 'तत्र कृत्ये' कालोपचारलक्षणे प्रेरयति, चन्द्रस्य हि नक्षत्रराशिसंचारेण कालस्य शुभाशुभपरिणामः, तथाहिचन्द्रस्य नानाकारोद्गमा राशिषु शुभाशुभसूचकाः, यथा-"अलिसिंहे धनुर्वक्रः, शूलाभः कन्यकातुले । दक्षिणाभ्युन्नतो मीन-मेषे कुम्भवृषे समः ॥ १॥ मिथुने मकरे चोत्त-रोन्नतोऽथ हलोपमः । धनुः कर्के रवौ श्लाघ्यो नवेन्दुरशुभोऽन्यथा ॥ २ ॥ विडुरं स्यात्समे चन्द्रे, सुभिक्षं दक्षिणोन्नते । ईतिराजभयं शूले, दुर्भिक्षं दक्षिणोन्नते ॥ ३ ॥ कृष्णे चन्द्रे भवेन्मृत्युः, पीते व्याधिसमागमः। रक्ते रसाः क्षयं यान्ति, श्वेते वृष्टिः प्रकीर्तिता ॥४॥" इत्यादि, नक्षत्रयोगा अपि धनिष्ठापञ्चकाद्याः तस्मिँस्तस्मिन्मासे दिने च शुभाशुभवृष्ट्यवृष्टिसूचकाः ख्याता वर्तन्ते । किंरूपमनेहसम् ? श्रेयसो दृष्टिदर्शनं यस्मिन् तं श्रेयोदृष्टिं कल्याणसूचकम् , यथा चन्द्रो राशिसंचारेण शीतातपवृष्टिगर्भपरिणामात्कालमुपचरन् रोहिण्यादिनक्षत्राणि तथा प्रेरयति, कृष्णोऽपि स्वयं श्रीनेमिमुपचरन् स्वप्रिया अपि तत्र कृत्ये प्रेरयामासेत्यर्थः । पुष्पपूरप्रचायमित्यत्र पुष्पाणां पूरः पुष्पपूरः, हस्तप्राप्यस्य पुष्पपूरस्य प्रचयनं पुष्पपूरप्रचायः, "हस्तप्राप्ये चेरस्तेये” (सि०५-३-७८) अनेन घञ्प्रत्ययः, हस्तप्राप्यत्वाभावे तु प्रचय एव भवति । भ्रुवौ विक्षिप्य भ्रूविक्षेपम् "स्वाङ्गेनाध्रुवेण” (सि० ५-४-७९) इति णम् प्रत्ययः । अत्रोदात्तदृष्टान्तानुप्रासाः ॥ १७ ॥ ताश्चानङ्गं पशुपतिदुतं गूढमार्गे शयानं
सख्य राज्ये जहति पुरुहे चास्त्रजातेजपि जाते । तत्राजय्ये त्रिभुवनपतावप्रभूष्णुं दृशैवो
पाजेकृत्वा लघु ववलिरे जिष्णुपत्न्योऽमि नेमिम् ॥१८॥ 'च' अन्यत् 'ताः' 'जिष्णुपत्न्यः' कृष्णान्तःपुर्यों नेमिमभि 'लघु शीघ्रं वबलिरे । किं कृत्वा ? 'अनङ्ग' कामं दृशैव 'उपाजेकृत्वा'