________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं व । क सति ? 'वीरे बन्धौ' श्रीनेमीशे 'सदेशे' समीपे स्थितवति सति । किंरूपो मुररिपुः ? 'रत्या' रागेण आक्षिप्तः, पक्षे रतिः कन्दर्पभार्या तयाऽऽक्षिप्तो वशीकृतः। 'यथा' येन प्रकारेण 'वीरोत्तंसः' सुभटमुकुटः 'श्रीसूनुः' कामः ता गोपीः स्मितमति यथा भवति निजभुजबलं गापयामास । किंरूपा गोपीः ? 'दृब्धहल्लीसकस्थाः' दृब्धं रचितं हल्लीसकं स्त्रीनाट्यं तत्र तिष्ठन्तीति । स्मिते हास्ये मतिर्यस्य तत् स्मितमति, अयमर्थः यत् विश्वैकवीरे श्रीनेमीश्वरे समोपस्थेऽपि मद्भार्ययाऽबलयाऽपि श्रीकृष्ण आक्षिप्तस्तत् तत्क्रीडासु प्रागल्भत, अतः कामवीरो गर्वाद् हसन् हल्लीसकस्था गोपीः खदोबलं गापयामास । उत्तिष्ठते स्मेति "उदोऽनूहे" ( सि०३-३६२) इत्यात्मनेपदम् । अत्र रत्या इति, वीरे इति, वीरोत्तंस इति, अद्भुतरसव्यञ्जकानि । “मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं हि तत्” ( अ० चि० कां० २ श्लो० १९५ ) । अत्र काव्यलिङ्गपर्यायोक्तानुप्रासाः ॥ १६ ॥ प्रेमाधिक्यात्प्रतितरु हरिः पुष्पपूरप्रचार्य
कृत्वा नेमि स्वयमुपचरन् सत्यभामादिभार्याः। भूविक्षेपं समदमनुदत्तत्र कृत्ये तदानीं
श्रेयोदृष्टिं हिमरुचिरिवानेहसं प्रेयसीः स्वाः ॥१७॥ 'हरिः कृष्णः सत्यभामादिभार्याः तदानीं 'तत्र कृत्ये' उपचारकृत्ये भ्रूविक्षेपं समदं यथा भवति 'अनुदत्' प्रेरयामास, भूसंज्ञयाऽन्तःपुर्यः प्रेरिता इत्यर्थः । किं कुर्वन् ? 'प्रेमाधिक्यात्' स्नेहाधिक्यात् 'प्रतितरु' वृक्षं वृक्षं प्रति पुष्पपूरप्रचायं कृत्वा 'स्वयं' आत्मना 'नेमिम्-उपचरन्' प्रतिवृक्षं हस्तप्राप्याणि पुष्याण्यवचित्य स्वयं शिरउरःकर्णादिषु निवेशनेन नेमि सम्मानयन्नित्यर्थः । किंविशिष्टं नेमिम् ? श्रेयसी-कल्याणी दृष्टिः-हग् यस्य अथवा श्रेयसि पुण्ये शुभे वा दृष्टिानं यस्य । क इव ? 'हिमरुचिरिव' चन्द्र इव, यथा हिमरुचिश्चन्द्रः स्वयम् 'अनेहसं' कालं उपचरन् स्वाः