________________
जैनमेघदूतम् ।
[द्वितीयः
ताभ्यां तत्र प्रसवजरजाकुङ्कमस्यन्दलिप्ती
नानावर्णच्छदनिवसना प्रैक्षि वानेयलक्ष्मीः ॥१५॥ 'तत्र' उद्याने ताभ्यां श्रीनेमिकृष्णाभ्यां 'वानेयलक्ष्मीः प्रैक्षि वने भवा वनस्येयं वा वानेयी, वानेयी चासौ लक्ष्मीश्च वानेयलक्ष्मीः , "पुंवत्कर्मधारये” (सि०३-२-५७) पुंवद्भावः । किंरूपा वानेयलक्ष्मीः ? 'ताराचारिभ्रमरनयनत्पद्मवद्दीर्घिकास्या' तारावत् कनीनिकावत् चारिणः चरणशीला भ्रमरा येषु तानि, नयनानीवाचरन्ति नयनन्ति, ताराचारिभ्रमराणि तानि च नयनन्ति पद्मानि विद्यन्ते यस्यां सा ताराचारिभ्रमरनयनत्पद्मवती, एवंविधा दीर्घिका एव आस्यं मुखं यस्याः सा, अत्रापि "पुंवत्कर्मधारये" (सि०३-२-५७) इति पद्मवत्याः पद्मवदिति पुंवद्भावः । दीर्घिका मुखं, तस्यां कमलानि लोचनानि, तेषु भ्रमराः कनीनिका इत्यर्थः । किञ्चिद् ईषद् हास्यवदाचरितानि सितानि-श्वेतानि सुमानि -कुसुमानि यस्यां सा । शुङ्गिका एव व्यक्तः स्पष्टो रागो यस्याः सा। पुन: किंभूता? 'प्रसवजरजःकुङ्कुमस्यन्दलिप्ती' प्रसवेभ्यः -पुष्पेभ्यो जायते तत् प्रसवजम् , रजः-किजल्कः तदेव कुङ्कुमस्य स्यन्दः-रसस्तेन लिप्ती-ईपल्लिप्ता । नानावर्णानि च्छदानि-दलान्येव वसनं वस्त्रं यस्याः सा । लिप्तीत्यत्र "क्तादल्पे” (सि०२-४-४५) इति ङी । अत्र रूपकोपमानपरिकरसमासोक्तयः । वानेयेति "नद्यादेरेयण” (सि०६-३-२) एयण प्रत्ययः ॥ १५ ॥ रत्याक्षिप्तो मुररिपुरथान्दोलनादौ सदेशे
वीरे बन्धौ स्थितवति तथा काममुत्तिष्ठते स । वीरोत्सः सितमति यथा दृब्धहल्लीसकस्थाः
श्रीसूनुस्ता निजभुजबलं गापयामास गोपीः ॥१६॥ 'अर्थ' अनन्तरं 'मुररिपुः कृष्णः 'तथा' तेन प्रकारेण 'अन्दो. लनादौ' क्रीडाविषये 'काम' अत्यर्थम् 'उत्तिष्ठते स्म' उद्यतो बभू.