________________
सर्गः।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
६७
संभाव्यं दृष्ट्वा शिरो धुनाति विकसितस्मितमुखः (च) भवति, वृक्षा अपि नेमेः स्मरावेशकारणे यौवने जितेन्द्रियत्वं वीक्ष्य विस्मिता इव शिरो धुन्वानाः स्मितास्याश्च जाताः । अत्र वायुचञ्चलशिखरत्वं शिरोधुननत्वेन मञ्जरीपिञ्जरत्वं च स्मितास्यत्वेन संभावितम् । अत्रो. प्रेक्षापरिकरकाव्यलिङ्गानुप्रासाः । नेमेनव्येत्यादिहेतोरुपन्यासात् काव्यलिङ्गम् ॥ १३॥ वाता वाघध्वनिमजनयन् वल्गु भृङ्गा अगायं
स्तालान् दधे परभृतगणः कीचका वंशकृत्यम् । वल्ल्यो लोलैः किशलयकास्यलीलां च तेनु
स्तद्भक्त्येति व्यरचयदिव प्रेक्षणं वन्यलक्ष्मीः ॥ १४ ॥ उत्प्रेक्ष्यते-'वन्यलक्ष्मीः' तयोः श्रीनेमिकृष्णयोः भक्त्या इति 'प्रेक्षणं' नाटकं व्यरचयदिव, वने भवा वन्या, वन्या चासौ लक्ष्मीश्च वन्यलक्ष्मीः । इतीति किम् ? वाताः 'वाद्यध्वनि तूर्यारावं अजनयन , भृङ्गाः 'वल्गु' मनोज्ञं यथा भवति अगायन् , 'परभृतगणः' कोकिलसमूहः तालान् दधे, 'कीचकाः' सच्छिद्रवंशा वंशकृत्यं तेनुः, 'च' अन्यत् 'वल्यः' लताः 'लोलेः' चञ्चलैः किशलयकरैः 'लास्यलीलां'नृत्तलीलां तेनुः। अन्यदपि प्रेक्षणं मृदङ्गादिवादित्रगानतालवंशनर्तकीनां संयोगे भवति । वने भवा वन्या "दिगादिदेहाशाद्यः” (सि०६-३-१२४) यप्रत्ययः । अत्र वाता इत्यादि निदर्शना, वल्लीनां नर्तकीत्वेनाध्यवसानादतिशयोक्तिः, किशलयकरैरिति रूपकम् , तेनुरिति क्रियाया द्वयोरुत्योरेकत्वाद्दीपकः, सकलेनार्थेनोत्प्रेक्षा, वन्यलक्ष्मीरिति समासोक्तिः । अन्यापि नायिका नायकभक्त्या नाटकं रचयतीत्यर्थः । अतो निदर्शनातिशयोक्तिरूपकदीपकोत्प्रेक्षासमासोक्त्यनुप्रासरूपः सङ्करः ॥ १४ ॥ ताराचारित्रमरनयनत्पद्मवद्दीर्घिकास्या
किञ्चिद्धास्थायितसितसुमा शुङ्गिकाव्यक्तरागा।