________________
जैनमेघदूतम् ।
[द्वितीयः सर्वात्माधिकरुचिरगात् सिन्धुरस्कन्धमध्या
रूढेनामा भुवनपतिना नेमिना तार्थ्यलक्ष्मा ॥ १२ ॥ 'अन्येद्युः' अन्यदिने 'सान्तःपुरपरिजनः' अन्तःपुरपरिवारयुक्तः 'तार्थ्यलक्ष्मा' कृष्णो नेमिना भुवनपतिना 'अमा' सह उद्यानदेशमगात् । क सति ? 'तत्र' उद्यानदेशे 'मधी' वसन्ते, 'इत्थम्' अमुना पूर्वोक्तप्रकारेण 'प्रभवति' फलपुष्पलतावृक्षादिसमृद्ध्या समर्थीभवति सति, किंभूतस्तार्क्ष्यलक्ष्मा? बर्करेणक्रीडया आबद्धा चेतसः-चित्तस्य प्रीतिर्यस्य स बर्क० । पुनः किंरूपः ? 'सर्वात्मा ' समस्तगजरथतुरङ्गच्छत्रचामरशृङ्गारादिखीयसमृद्ध्याऽधिका रुचिर्दीप्तिर्यस्य । किंविशिष्टेन नेमिना ? सिन्धुरस्य-गजस्य स्कन्धमध्यारूढेन, एतावता वसन्तेन पुष्पफलादिना सश्रीकं क्रीडावनं गजारूढेन श्रीनेमिना सह श्रीकृष्णः सपरिवारः क्रीडितुमगादित्यर्थः । अत्र परिकरानुप्रासस्वभावोक्तयः ॥ १२ ॥ तत्रापाचीपवनलहरीलोलमौलिप्रदेशान्
नानासालान् सरसविकसन्मञ्जरीपिञ्जराग्रान् । नेमेनव्ये वयसि वशितां वीक्ष्य चित्रसितास्यान्
संधुन्वानानिव परि शिरस्तौ क्षणं प्रैक्षिषाताम् ॥ १३ ॥ ('तौ') श्रीनेमिकृष्णौ 'तत्र' उद्याने 'नानासालान्' विविध. वृक्षान् क्षणं प्रैक्षिषाताम्' अपश्यताम् । किंरूपान् ? 'अपाची.' अपाची दक्षिणा तस्याः पवनलहरीभिर्लोलाश्चञ्चला मौलिप्रदेशाः शिखरप्रदेशा येषां ते तान् । पुनः किंरूपान् ? 'सरस०' सरसाभिर्विकसिताभिर्मचरीभिः पिञ्जरमधे येषां तान् । अथ चञ्चलत्वेऽपि विकसितत्वेऽपि (च) कारणान्तरं संभावयन्नाह-उत्प्रेक्ष्यते-नेमेः 'नव्ये वयसि यौवने 'वशितां जितेन्द्रियतां वीक्ष्य 'परि' समन्तात् 'शिरः' शीर्ष संधुन्वानानिव । किंरूपान् ? चित्रेण आश्चर्येण स्मितं विकसितं आस्यं मुखं येषां तान् । अन्योऽपि किमप्य