________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं ६५ काण्डाः-शरा येषां ते । कीराणां-शुकानाम् आरावैः-शब्दैः 'किलिकिलिकृतः' किलिकिलि कुर्वन्तीति किलिकिलिकृतः । अतो वृक्षा एव कामस्य योधा इव भान्तीत्यर्थः । कङ्कट इवाचरतीति "कर्तुः क्विप्०” (सि० ३-४-२५) क्विप् , अप्रत्ययः, कङ्कटतीति वर्तमाने (शतृप्रत्ययः) । अत्र निदर्शनारूपकश्लेषाः ॥१०॥ मन्दं मन्दं तपति तपनस्यातपे यत्प्रतापः
प्रापत् पोषं विषमविशिखस्येति चित्रीयते न । चित्रं त्वेतद्भजदमलतां मण्डलं शीतरश्मे
यूनामन्तःकरणशरणं रागमापूपुषद्यत् ॥ ११ ॥ यद् 'विषमविशिखस्य' कामस्य प्रतापः 'तपनस्य' सूर्यस्य आतपे तपति सति मन्दं मन्दं पोषं प्रापत् इति न चित्रीयते-चित्रं न करोति, यद् खेरपि आतपो मन्दं मन्दं तपन् पोषं प्राप, कामस्यापि प्रतापः पोषं प्राप । 'तु' पुनर् एतत् 'चित्रम्' आश्चर्यं यत् 'शीतरश्मेः' चन्द्रस्य मण्डलं 'अमलताम्' निर्मलतां भजत् सन् यूनां 'अन्तःकरणशरणम्' चित्तस्थानं रागं 'आपूपुषन्' वर्धयति स्म, चन्द्रमण्डलं स्वयं निर्मलत्वं भजति, यूनां चित्ते रागं वर्धयति तच्चित्रम् । आपूपुषत् "पुपण् धारणे" आपूर्वः "चुरादिभ्यो णिच्” (सि० ३-४-१७ ) इति । अत्र समाधिः आक्षेपो विषमोऽनुप्रा. सश्च, तत्र “निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥" ( का० प्र० १०, १०६) इति । "गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत्स एष विषमो मतः॥” (का० प्र० १०,१२७) इति चित्रीयते नेत्यादि आक्षेपः, चित्रं त्वेतदित्यादि विषमः ॥११॥ इत्थं तत्र प्रभवति मधौ बर्कराबद्धचेतः
प्रीतिः सान्तःपुरपरिजनोऽन्येचुरुद्यानदेशम् ।