________________
६४
जैनमेघदूतम् ।
[द्वितीयः
धन्वप्रतिष्ठां प्रापुः' शरेण बाणेन सह वर्तते इति सशरम्, अध्यारोपिता ज्या - प्रत्यश्वा यत्र तद् अधिज्यम्, अधिज्यं च तद् धन्व च अधिज्यधन्व, मदनस्य अधिज्यधन्व मदनाधिज्यधन्व, पश्चात् सशरेण कर्मधारयः, तस्य प्रतिष्ठा सशरमदनाधिज्यधन्वप्रतिष्ठा ताम् । किंरूपा व्रतत्यः ? 'मूलौ' शिखरे 'मूले' आदौ सरलं शिखरिणः- वृक्षस्य स्कन्धं-प्रकाण्डम् ‘आश्लिष्टवत्यः' आलिङ्गितवत्यः, मध्ये पुष्पाणां स्तबकेन 'विनता:' नम्राः 'आमोदेन' परिमलेन 'आयतमधुकर - श्रेणिभिः श्रीयमाणाः' इत्यादि स्पष्टम् । अतोऽन्ते आदौ च वृक्षस्कन्धं श्लिष्टा अन्तः पुष्पस्तबकनम्राः धनुः स्थानीया वहयः, शररूपा भ्रमरश्रेणीत्यर्थः । अत्र निदर्शनाऽनुप्रासौ ॥ ९ ॥
मूर्ध्निलिष्टभ्रमरपटलैः क्लृप्तशीर्षण्यरक्षाः
शाखाबाहा विधृतफलकाः कङ्कटद्वल्कवेष्टाः । पत्राङ्करैः पुलकिततमाः सारधर्मप्रकाण्डाः
कीरारावैः किलकिलिकृतो भेजिरे जर्णयोधाः ॥ १० ॥ 'जर्णयोधाः ' वृक्षभटा: 'भ्रेजिरे' राजिताः, अधिकारात् कामराजस्येति ज्ञेयम् । किंरूपा: ? 'मूर्ध्नि' शिखरे 'ष्टिभ्रमरपटलैः ' संबद्धभ्रमरसमूहैः क्लृप्ता - रचिता शीर्षण्येन - शिरस्त्राणेन रक्षा यैस्ते, सुभटानां शीर्षे शिरस्त्राणो भवति, संबद्धानि भ्रमरपटलान्येव लोहमयं शिरस्त्राणम् । पुनः किंरूपाः ? शाखा एव बाहा - स्ताभिः विधृतानि फलानि यैस्ते शाखाबाहाविधृतफलकाः, योधप शाखा इव दीर्घा बाहाः शाखाबाहास्ताभिर्विधृतानि फलकानि आवरणानि यैस्ते । कङ्कटः कवचः तद्वदाचरन् वल्कस्य वेष्टो येषु ते । पत्राण्येव अङ्कराः पत्राद्दूरास्तैः प्रकृष्टं पुलकिताः पुलकिततमाः । सारः स्थिरो धर्मः स्वभावो यस्य तत् सारधर्मं प्रकाण्डं येषां ते, योधपक्षे सारं धर्म - धनुः प्राति- पूरयतीति "आतो डोऽह्वावामः " ( सि० ५-१-७६ ) इति उप्रत्यये सारधर्मप्राः, एवंविधाः