________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ६३ अवलगितास्तेषु । किंविशिष्टा विशिखविसराः ? दीप्ताः । पुनः कथंभूताः ? कान्ताः-मनोज्ञाः कल्याणस्य-सुवर्णस्य पुङ्खा येषां ते । यथा शाखावलगितेषु तूणीरेषु मध्ये गुप्ता किश्चित्प्रकटा सुवर्णपुङ्खा शरावलिर्भवति तथा कुसुमेषु केसरावलिः संभाव्यते । ऋतुः प्राप्तोऽमीषामिति आर्तवानि "ऋत्वादेरण" ("ऋत्वादिभ्योऽण् ") (सि० ५-४-१२५) अण्प्रत्ययः । अत्र परिकरोत्प्रेक्षाऽनुप्रासाः ॥ ७॥
अग्रे तीक्ष्णं क्रमपृथु ततो नीलपत्रैः परीतं
पुष्पव्रातं दधुरभिनवं केतकीनां कलापाः। कोशक्षिप्तं कनककपिशं पत्रपालासिपुत्री
प्रख्यास्त्राणां समुदयमिवानङ्गराजस्य जिष्णोः ॥ ८॥ 'केतकीनां कलापाः' समूहा अभिनवं पुष्पनातं दधुः । किंरूपम् ? अग्रे मुखे तीक्ष्णम्, 'ततः' तदनन्तरं क्रमेण पृथु विस्तीर्ण नीलपत्रैः 'परीतं' वेष्टितम् । पुनः किंरूपम् ? उत्प्रेक्ष्यते-'जिष्णोः' जयनशीलस्य अनङ्गराजस्य पत्रपालासिपुत्रीप्रख्यात्राणाम्' पत्रपालो दीर्घाशस्त्रीपटासंज्ञकः असिपुत्री-शस्त्री तन्मुखशस्त्राणां समुदयमिव । किंरूपम् ? कोशे क्षिप्तं स्थापितं कनकवत् कपिशं-पिङ्गम् । मुखे तीक्ष्णानि क्रमेण विस्तीर्णानि नीलपत्रवेष्टितानि केतकीदलानि कामस्य पत्ररूपकोशे क्षिप्तानि मुखे तीक्ष्णानि क्रमाद्विस्तीर्णानि कनकपिञ्जराणि पत्रपालशस्त्रीमुख्यशस्त्राणीव भान्तीत्यर्थः । अत्रोप्रेक्षारूपकानुप्रासाः ॥ ८॥ मूलौ मूले सरलशिखरिस्कन्धमाश्लिष्टवत्यो
मध्ये पुष्पस्तबकविनताः पौरकेषु व्रतत्यः । आमोदेनायतमधुकरश्रेणिभिः श्रीयमाणाः
प्रापुः पूर्णा सशरमदनाधिज्यधन्वप्रतिष्ठाम् ॥९॥ 'पौरकेषु' बाह्यारामेषु 'व्रतत्यः' वल्यः पूर्णा 'सशरमदनाधिज्य