________________
६२ जैनमेघदूतम् ।
[द्वितीयः कोकिलाः 'प्रतिदिशं' दिशं दिशं प्रति उच्चैः 'कलकलरवान्' कलकलशब्दान् चक्रुः । किंरूपाः कोकिलाः ? अविस्पन्दः-निश्चलो माकन्दनागः-सहकारवृक्षः तस्य स्कन्धं-प्रकाण्डं तत्रारूढाः । पुनः किं विशिष्टाः ? 'कान्तकण्ठाः'.स्फुटम् । पुनः किंरूपाः ? उत्प्रेक्ष्य(क्ष)ते-यतय एव भटाः सुभटाः तान् 'धीरं' सावष्टम्भं यथा भवति आह्वानयन्तो 'नग्नप्रष्ठा इव' नमाः-बन्दिनस्तेषु प्रष्ठाः -श्रेष्ठाः, सङ्घामे हि बन्दिनो वंशपराक्रमादिवर्णनं कुर्वन्तः सुभटान् परस्परमुत्थापयन्ति । किंरूपा ननप्रष्ठाः ? 'अविस्पन्दमाकन्दनागस्कन्धारूढाः' न विद्यते विस्पन्दश्वलनं यस्याः साऽविस्पन्दा, अविस्पन्दाया निश्चलाया माया लक्ष्म्याः कन्दो यो नागो हस्ती तस्य स्कन्धमारूढाः । किंरूपान् यतिभटान् ? त्रिभुवनजये 'संनयन्तं' सज्जीभवन्तं कामराजं 'जिगीपून' जेतुमिच्छून् । सर्वदिशासु सहकारारूढाः कोकिलाः कलकलरवं कुर्वाणात्रिभुवनजयबद्धकक्षं कामराजं प्रति युद्धाय यतिभटानाकारयन्तो बन्दिन इवेत्यर्थः । दिश (श्)दिशा शब्दद्वयं । अत्रोत्प्रेक्षारूपकोदात्तानुप्रासाः ॥ ६ ॥ किश्चित्प्रेक्ष्या दरविकसितेष्वार्तवेषु प्रसने
वन्तगूढाः शुशुभुरभितः पिञ्जराः केसराल्यः । शाखोचण्डेष्विव तनुभुवो वीरतूणीरकेषु
क्षिप्ता दीप्ता विशिख विसराः कान्तकल्याणपुलाः ॥७॥ 'अभितः' समन्तात् 'दरविकसितेपु' ईषद्विकसितेषु आर्तवेषु प्रसूनेषु 'पिञ्जराः' पिङ्गाः केसराल्यः शुशुभुः । येषां पुष्पाणामृतुः प्राप्तो भवति तानि आर्तवानि तेषु । किंरूपाः केसराल्यः ? 'किञ्चित्' अल्पमात्रं प्रेक्ष्याः' दृश्याः 'अन्तः' मध्ये 'गूढाः' गुप्ताः । उत्प्रेक्ष्य(क्ष)ते-'तनुभुवः' कामस्य 'वीरतूणीरकेषु' वीरनिषङ्गेषु क्षिप्ताः 'विशिखविसराः' बाणसमूहा इव । कुसुमानि तूणीराः, केसरश्रेणी सरलधर्मत्वादाणावलिः । किंरूपेषु वीरतूणीरफेषु ? शाखासु उच्चण्डा