________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं
राजहंसाः सरस्सु 'प्राक्रीडन्त' प्रकर्षण अक्रीडन् । किं कुर्वन्तः ? 'सुषमं मनोमं यथा भवति 'अभितः समन्तात् 'संक्रीडन्तः' कूजन्तः, किंरूपा राजहंसाः ? 'नु' इति वितर्के अधिकारात् कामनरेन्द्रस्य परपुरं प्रति प्रवेश्याः' प्रवेशे साधवः 'कम्बवः' शङ्खाः, अन्योऽपि राजा यदा परस्य वैरिणः पुरं प्रविशति तदा शङ्खा वाद्यन्ते, कामस्यापि परस्य-अन्यस्य पुरं-शरीरं प्रति प्रवेशे कूजन्तो राजहंसा एव शङ्खाः । 'चूतात्' आम्रात् चूतान्तरम् 'अभियती' अभिमुखं गच्छन्ती 'रक्ततुण्डायताली' रक्ततुण्डाः शुकास्तेषामायता दीर्घा आली–श्रेणिः 'दलकिशलयामुक्तमङ्गल्यदानः' दलैः-पत्रैः किश. लयैश्च यत् आमुक्तं बद्धं मङ्गल्यदाम वन्दनमालिका तस्य लीलां दधे । दलस्थानीया नीलवर्णाः शुकाः, पल्लवस्थानीयानि तेषामारक्तानि मुखानि, यदैकस्मादाम्रादुड्डीय श्रेणिबद्धा नीलवर्णा आरक्तमुखाः शुकाः समकालमेव सहकारान्तरमभियान्ति तदा कामराजस्य परपुरं प्रति प्रवेशे वन्दनमालिकाशोभा भवति । संक्रीडन्त इत्यत्र कूजनार्थत्वात् परस्मैपदित्वे शतृप्रत्ययः, अन्यथा 'क्रीडोsकूजने” (सि० ३-३-३३) इति सूत्रेण संपूर्वकस्य क्रीडधातोरात्मनेपदित्वं स्यात् । प्राक्रीडन्तेति "क्रीड़ विहारे" प्र-आङ्पूर्वकः, "अन्वाङ्परेः” (सि० ३-३-३४) इत्यात्मनेपदम् । अभियती इत्यत्र "इण्क् गतौ” इ अभि एतीति वर्तमाने "शत्रा-” (सि० ५-२-२०) शतृप्रत्ययः अत् , 'ह्विणोरप्विति व्यौं” (सि० ४-३-१५) (इति) यत्वम् । “मभिभजद्रक्त-” इति अपपाठः । अत्रोत्प्रेक्षानिदर्शनानुप्रासाः ॥ ५ ॥ उच्चैश्चक्रुः प्रतिदिशमविस्पन्दमाकन्दनाग
स्कन्धारूढाः कलकलरवान् कोकिलाः कान्तकण्ठाः । संनयन्तं त्रिभुवनजये कामराजं जिगीषून्
नग्नप्रष्ठा इव यतिभटान् धीरमाह्वानयन्तः ॥६॥