________________
६०
जैनमेघदूतम् ।
[द्वितीयः
भवति भ्राजिधातोरात्मनेपदीयत्वादेव । उपाय एव औपयिकः "उपायाद् इस्वश्च" (सि०७-२-१७०) इकण हवः । किशलानि संजातानि येषु ते किशलिताः "तदस्य सजतं तारकादिभ्य इतः" (सि० ७-१-१३८ ) इतप्रत्ययः । सुवर्णस्य विकारोऽवयवो वा सौवर्णः "हेमादिभ्योऽब्” ( सि०६-२-४५ ) अप्रत्ययः । अत्रोत्प्रेक्षारूपकानुप्रासाः ॥ ३ ॥ कासारान्तः शुचिखगरुचिः सेरराजीवराजी
रेजे राजप्रतिमकमनस्यातपत्रावलीव । शोभा भेजुः कुसुमिततमाः कुन्दशालासु गुल्मा
वातोद्भूता मरकतमहादण्डसच्चामराणाम् ॥४॥ 'कासारान्तः' सरोमध्ये 'स्मेरराजीवराजी' विकखरकमलश्रेणी रेजे । उत्प्रेक्ष्यते- 'राजप्रतिमकमनस्य' भूपरूपकामस्य 'आतपत्रावलीव' छत्रावलीव । किंरूपा स्मेरराजीवराजी ? 'शुचिखगरुचिः' शुचिरुज्ज्वलः खगः-पक्षी राजहंसस्तेन रुचिः-शोभा यस्याः, अथवा शुचौ निर्मले खगे श्रीसूर्ये रुचिः-इच्छा यस्याः सा सूर्यस्य प्रबोधदायित्वात् , पक्षे शुचिः-पवित्रा खगा-आकाशगामिनी रुचिः कान्तिर्यस्याः, अथवा शुचे:-आषाढस्य खगः-सूर्यः तद्रुचि:-कान्तिर्यस्याः सा । 'कुन्दशालासु' कुन्दानां शाखासु 'गुल्माः' स्तम्बाः 'मरकतमहादण्डसञ्चामराणां शोभा भेजुः' मरकतरत्नस्य महादण्डे सन्तः-प्रशस्ताश्चामरास्तेषाम् । किंरूपा गुल्माः ? 'कुसुमिततमाः' अत्यर्थ संजातकुसुमाः । पुनः किंरूपाः ? वातेन उत्प्राबल्येन धूताः-कम्पिताः । शाखा मरकतदण्डाः, गुल्माः वामराः । अत्र श्लेषोत्प्रेक्षाऽनुप्रासोपमापर्यायोक्तानि ॥४॥ संक्रीडन्तः सुषममभितो राजहंसाः सरस्सु
प्राक्रीडन्त प्रति परपुरं कम्बवो नु प्रवेश्याः । चूताबूतान्तरममियती रक्ततुण्डायताली लीलां दधे दलकिशलयामुक्तमङ्गल्यदानः॥५॥