________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं वहनं मार्गातिक्रमणं येषां ते, अथवा कामस्य वाहाः-हया इव कामवाहा मलयानिला एव कामस्य वाहाः, वाहाः कीदृशा भवन्ति ? उद्यन् प्रबलीभवन् मोहस्य मौन्यस्य प्रसव उत्पत्तिर्यस्मात् ईदृशेन रजसा रेणुना आकाशं पूरयन्तः, तुरङ्गाः (हि) वेगेन गच्छन्तः खुराधातै रेणुमुत्पाटयन्ति, तेन च पदार्थानामदर्शनेन मौढ्यं स्यात् । पुनः कथंभूताः ? अभीका निर्भयाः तेषामभीष्टाः, कातरा हि पातनपदाघातादिभीत्या तुरगाणामासन्न एव नायान्ति । अत्रापह्नुतिरूपकश्लेषोत्प्रेक्षाः ॥ २ ॥ रेजुः क्रीडापयिकगिरयो राजतालीवनाढ्याः
श्यामाः कामं किशलितनगा निष्कमोचापरीताः। सन्नह्यन्तः सरनरपतेः केतनत्रातकान्ताः
सिन्दूराक्ता इव करटिनो वर्ण्यसौवर्णवर्णाः ॥ ३ ॥ क्रीडौपयिकगिरयो रेजुः क्रीडायाः-वनविहारपुष्पावचयनजला. वगाहनादिरूपाया औपयिका:-योग्याः (गिरयः) रेजुः' अशुभन् । किंरूपाः ? राजतालीवनानि-श्रीताडवनानि तैराड्याः समृद्धाः, श्यामाः, 'कामम्' अत्यर्थ किशलिताः सञ्जातकिशलयाः नगाः-वृक्षा येषु ते । निष्कं-सुवर्ण तद्रूपा मोचा:-कदल्यः ताभिः सुवर्णकदलीभिः परीताः-वेष्टिताः । उत्प्रेक्ष्यते-'स्मरनरपते:' कामभूपस्य सन्नह्यन्तः 'करटिनः' गजेन्द्रा इव । किंरूपाः करटिनः ? केतनानां-ध्वजानां बातेन-समूहेन कान्ताः । सिन्दूरेण अक्ता लिप्ताः। वो वर्णनीयः सौवर्णः सुवर्णमयो वर्णो गुडियेषां ते “कुथे वर्णपरिस्तोमः” ( अ० चि० कां० ३-३३४ ) इति वचनात् । राजतालीवनानि केतनवाताः, किशलयानि सिंदूरः, सुवर्णकदल्यः सुवर्णकुथाः, वनैः श्यामीभूताः पर्वताः करिण इति साधर्म्यम् । "राजग् टुभ्राजि दीप्तौ”राज्धातोः परोक्षा उसि प्रत्यये "जभ्रम-" (सि० ४-१-२६) इति एकारे रेजुरिति रूपम् , श्रेजुरिति न