________________
५८
जैनमेघदूतम् ।
[द्वितीय:
वसन्तर्तुः समेत इत्यर्थः । अध्वानमत्यन्तं गच्छतीति " अध्वानं येनौ ” ( सि० ७ - १ - १०३ ) ईनप्रत्ययः । अमित्रमभि अत्यन्तं गच्छतीति "अभ्यमित्रमीयश्व" ( सि० ७-१-१०४ ) ईनप्रत्ययः, " रघुवर्णानो ण एकपदेऽ - " ( सि० २-३-६३) नो णः, अभ्यमित्रीण इवाचरतीति "कर्तुः किपू- " ( सि० ३-४-२५ ) अप्रत्ययः, अभ्यमित्रीणतीति वर्त्तमाने शतृ । “प्रादुराविः प्रकाशे " (अ० चिं० कां० ६ ० १७५ ) । श्लेष उत्प्रेक्षा ॥ १ ॥
अथ रतिपतेरभ्यमित्रीणत इत्युक्तं तत्र वसन्तवर्णने कामस्य युद्धसज्जतामष्टभिः काव्यैः कथयति कविः - वानस्पत्याः कलकिशलयैः कोशिकाभिः प्रवालैस्तस्याराजन्निव तनुभृतो रागलक्ष्मीनिवासाः । उद्यन्मोहप्रसवरजसा चाम्बरं पूरयन्तोऽ
"
भीकाभीष्टा मलयमरुतः कामवाहाः प्रसतुः ॥ २ ॥ पूर्वं पुष्पाणि तदनु फलानि येषां स्युस्ते वनस्पतयः, "पुष्पैस्तु फलवान् वृक्षो वानस्पत्यो विना तु तैः ॥ फलवान् वनस्पतिः स्यात् " (अ० चिं० कां० ४ ० १८१ - १८२ ) इति ' वानस्पत्याः ' वृक्षाः ‘तस्य' रतिपतेः ‘तनुभृतः ' मूर्त्ताः रागलक्ष्मीनिवासा इव अराजन् । अन्यस्मिन्नपि सैन्ये लक्ष्मीयुक्ता निवासा भवन्तिं, कामस्य लक्ष्मी राग एव तस्या मूर्त्तिमन्तो निवासा इव वृक्षाः । कैः ? ' कलकिशलयै : ' नवीनतर मनोज्ञपत्रैः ' कोशिकाभिः ' प्रवालोत्पत्तिकारणशुङ्गाभिः 'प्रवालै: ' नवीनतरपल्लवैः, एते सर्वेऽपि रक्ता भवन्ति अतो रागत्वेऽपि वितर्किताः । 'च' अन्यत् 'मलयमरुतः ' मलयाचलसम्बन्धिवायवः 'प्रसस्रुः' प्रसृताः । किंरूपा मलयमरुतः ? उद्यन् उदयं गच्छन् मोहो मनोरागो येभ्यस्ते उद्यन्मोहाः प्रसवाः - पुष्पाणि तेषां रजसा किञ्जल्केन 'अम्बरम्' आकाशं पूरयन्तः । पुनः किंरूपा: ? अभीकानां कामिनामभीष्टाः । पुनः कथंभूताः ? कामेन स्वेच्छया वाहो