________________
द्वितीयः सर्गः। प्रथमे सर्गे श्रीनेमिनो रूपवर्णनादनु शङ्खपूरणहरिभुजानामनादिक्रीडोक्ता । अथ वसन्तक्रीडाप्रस्तावनार्थ वसन्तवर्णनमाहएवं दिष्टे व्रजति जनयन्त्रध्वनीनाङ्गनानां
विश्वस्तत्वं यमनियमभीदायको व्याप्तविश्वः। विश्वाधीशं प्रति रतिपतेरभ्यमित्रीणतस्तं
प्रादुर्भूतः सुरभिरभितः किं नु नासीरवीरः ॥१॥ 'एवं' अमुना प्रकारेण विविधक्रीडाकौतुकेन 'दिष्टे काले व्रजति सति 'अभितः समन्तात् 'सुरभिः' वसन्तः 'प्रादुर्भूतः' प्रकटीबभूव । किंभूतः सुरभिः ? 'नु' इति वितर्के 'रतिपतेः' कामस्य किम् ? 'नासीरवीरः' नासीरमग्रयानं तत्र वीरो नासीरवीरःअग्रेसरवीरः सेनानीरित्यर्थः । किं कुर्वन् ? 'अध्वनीनाङ्गनानाम्' पथिकस्त्रीणां विश्वस्तत्वं' विधवत्वं जनयन् , वसन्ते हि फलितपुष्पितलताविलोकनकोकिलाकूजितश्रवणदक्षिणपवनादिभिरुन्मादजनकैवियोगार्तानां पथिकानां मरणसद्भावात् । पक्षेऽध्वनीनाङ्गनानां विश्वस्तत्वं विश्वाससहितत्वं जनयन् सेनानीः हि अप्रगः सन् त्रस्यन्तीनां स्त्रीणां मा भैषुरिति विश्वासं जनयति । पुनः किंभूतः ? 'यमनियमभीदायकः' यमाः-पञ्चव्रतानि नियमाः सत्यशौचाद्यास्तेषां भियं ददातीति यमनियमभीदायकः । पक्षे यमवनियम बन्धनं तस्य भियं ददातीति यमनियमभीदायकः। सेनान्यमागच्छन्तमकस्माद्विलोक्य जना बन्धनाद्विभ्यति । पुनः किंरूपः ? व्याप्तं विश्वं येन सः । पक्षे व्याप्ता विश्वा पृथ्वी येन सः। किंभूतस्य रतिपतेः ? तं विश्वाधीशं' श्रीनेमिनं प्रति 'अभ्यमित्रीणतः' अभ्यमित्रीण इवाचरतः, सज्जीभूय युद्धाय योऽभिमुखं गच्छति सोऽभ्यमित्रीणः । श्रीनेमिनं जिगीषोः कामस्य सेनानीरिव
१ "भैष्ट इति" इति प्रत्यन्तरे.