________________
५६ जैनमेघदूतम् ।
[प्रथमः पुनः किंरूपः ? 'अद्वेषरागः' अन्तःपुरे स्वजनेच्छया क्रीडन्नपि भगवान् रागद्वेषकलङ्ककणिकारहित एव । अत्र सौभ्रात्रमिति शोभनो भ्राता सुभ्राता सुभ्रातुर्भावः सौभ्रात्रम् , “युवादेरण" (सि० ७-१-६७ ) अण्प्रत्ययः । भ्राजते इत्येवं शीलः "भ्राज्यलकृ'निराकृग-" (सि० ५-२-२८) इष्णुप्रत्ययः । अत्र परिकरविशेषोत्त्यनुप्रासाः । नर्मकर्मादिकारणेऽपि रागद्वेषानुत्पत्तिविशेषोक्तिः ॥५०॥
इत्याचार्य-श्रीशीलरत्नसूरिविरचितायां श्रीजैनमेघदूत
महाकाव्यटीकायां प्रथमः सर्गः ॥१॥