________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ५५ जेतुमशक्योऽजय्यः, “य एश्चातः” (सि० ५-१-२८) यप्रत्ययः "क्षय्यजय्यौ शक्तौ” ( सि० ४-३-९० ) इति निपातः । वीक्षापन्नोऽपीत्यादि धैर्यव्यभिचारिभावोदयः । उदात्तमालोपमानुप्रासाः ॥ ४९॥ तेनात्यन्तं किमपि हलिनालोच्य सौभ्रात्रभाजा
सर्वस्वेच्छाललनविषयेऽभ्यर्थितोऽत्यादरेण । भ्राजिष्णुश्रीरथ स विदधनर्मकर्माणि जिष्णोः
शुद्धान्तेऽप्यस्खलितगतिकोऽद्वेषरागश्चिखेल ॥ ५० ॥ 'अर्थ' अनन्तरं 'सः' भगवान 'जिष्णोः' कृष्णस्य 'शुद्धान्तेऽपि अन्तःपुरेऽपि 'नर्मकर्माणि' हास्यकर्माणि 'विदधन्' कुर्वन् अस्खलितगतिकः सन् 'चिखेल' चिक्रीड । किंरूपः सः ? 'तेन' कृष्णेन 'हलिना' बलदेवेन सह किमप्यत्यन्तमालोच्य 'सौभ्रात्रभाजा' सुभ्रातृत्वभाजा सता सर्वस्वेच्छाललनविषयेऽत्यादरेणाभ्यर्थितः । सर्वस्वेच्छया ललनं-क्रीडनं तद्विषये, सम्बन्धश्चायम्-"तदा कृष्णः श्रीनेमिना सह प्रीतिवात्ता विधाय बलदेवेन सह मन्त्रार्थ लक्ष्मीगृहमगात् तत्र बह्वालोचितम् । राज्ञां गूढमत्रत्वाद्राजीमती न वेत्ति किमालोचितमिति । तत्र श्रीकृष्णो बलदेवमेवमवादीन् , यद्वन्धो ! दृष्टं नेमिबाहुबलम् ? । एषः ‘कीटिकासञ्चितं तित्तिरिश्चिनोति' इति न्यायेनात्मभिर्भूरितरसंग्रामक्लेशकोटिभिः समर्जितं राज्यमवसरे हेलया लास्यतीति नास्य विश्वासः कर्तुमर्ह इति यावद्वक्ति तावलक्ष्मीदेव्या 'नेमिकुमारः पाणिग्रहणराज्याङ्गीकरणपराङ्मुख एव प्रव्रजिष्यति' इति श्रीनमिनाथेनोक्तमस्तीत्यूचे, तच्छ्रवणाद्विमुक्तशङ्ख समुल्लसितनिबिडभ्रातृस्नेहः स्वसौधमागय श्रीनेमिनमाकार्य सस्नेहमूचिवान् । बान्धव ! त्वयाऽस्मदनुग्रहार्थ मत्सौधान्तःपुरेऽपि स्वभ्रातृजायाभिः सह निःशङ्कतया नर्मकर्मादिक्रीडा कर्त्तव्या ।" किंरूप: ? भ्राजिष्णुदेदीप्यमाना श्रीः शोभा यस्य स भ्राजिष्णुश्रीः ।