________________
जैनमेघदूतम् ।
[प्रथमः वृक्षस्य शाखां चालयित्वा हरिं वानरं दोलयति । 'च' अन्यत् सुमनसः तं भगवन्तं अभ्यपप्तन् । किंविशिष्टाः सुमनसः ? 'गोत्रात्' नाम्नः 'तुल्यैः' सुमनोभिः 'दिवि' आकाशे जयजयरवोदोषपूर्व मुक्ताः । सुमनसो देवाः पुष्पाणि च । गगनाङ्गणे देवैजयजयारावमुच्चरद्भिः कुसुमवृष्टिः कृतेत्यर्थः । किंरूपं तम् ? 'सिद्धस्वार्थ' सिद्धो निष्पन्नः स्वार्थ आत्माओं यस्य तम् । उत्प्रेक्ष्यते 'तृषा इव' लोभेनेव यथान्येऽपि गोत्रादन्वयात्तुल्यैः सगोत्रैर्मुक्ता आक्षिप्तास्तृष्णया सिद्धस्वार्थ पुरुषमभिपतन्ति । सिद्धो -निष्पन्नः स्व-आत्मीयोऽर्थो यस्मात्तम् । ये गोत्रिभिर्मुक्ता भवन्ति ते निराधाराः सन्तो यस्मात्स्वार्थः सिध्यति लोभेन तं श्रयन्ति । अद्रेरित्यनेकार्थमपि परं शाखासंयोगाद्वृक्षवाचकमिति न संदिग्धदोषः । "तृट् तृष्णावत्तर्षवञ्च भवेल्लिप्सापिपासयोः।” (हैम अने०१-१५) इति तृट लोभवाची । अत्रोपमाशब्दश्लेषोत्प्रेक्षाक्रियासमुच्चयाः॥४८॥ वीक्षापन्नोऽप्यधिहसमुखो दोषमुन्मुच्य दोष्मा
नङ्केपालिं दददिति हरिः स्वामिनं व्याजहार । भ्रातः! स्थाना जगति भवतोऽजय्यमेवासमद्य
प्रद्युम्नानी इव मधुनभःश्वाससाहायकेन ॥ ४९ ॥ 'हरिः कृष्णः 'अङ्केपालिं' आलिङ्गनं ददत्सन् स्वामिनं इति 'व्याजहार' उवाच । किंरूपो हरिः ? 'वीक्षापन्नोऽपि' विलक्षोऽपि 'अधिहसमुखः' अधिको हसो हास्यं यस्मिन्नेवंविधं मुखं यस्य । किं कृत्वा ? 'दोष' भुजमुन्मुच्य, 'दोष्मान्' बलिष्ठः । किमाह ? हे भ्रातः! अद्याहं भवतः 'स्थाना' बलेन 'जगति' विश्वे अजय्य एव 'आसं अभवम् । परैर्जेतुमशक्योऽजय्यः । अग्रेऽप्यहं बलवानस्मि परं त्वदलेन सर्वत्राप्यजय्यो भविष्यामीत्यर्थः । काविव ? 'प्रद्युम्नानी इव' यथा प्रद्युम्नानी कामानलौ 'मधुनभःश्वाससाहायकेन' मधुः-वसन्तो नभःश्वासो-वायुस्तयोः साहाय्येनाजय्यौ भवतः।