________________
सर्गः।
श्रीमन्मेरुतुङ्गसूरिविरचितं
द्वाभ्यामपि भुजाभ्यामाकान्त इत्यर्थः । तत्र भुजानमने श्रीकृष्णस्य प्रयासातिरेकमाह-किं कृत्वा पूर्व पार्णी तदनु सकले गोहिरे भूमिपीठादुच्चैर्नीत्वा । पाणि पादानम् । गोहिरं पादमूलम् । किंरूपो हरिः ? 'भुजवलचयीः' भुजे बलस्य चयमिच्छन् । किं कुर्वन् ? 'सर्वदेहं पीडयन्' सर्वस्यापि शरीरस्य प्राणं भुजे एव समागच्छतीति कृत्वा । क इव ? 'इभ इव' यथा इभः 'अधिप्रसतहिमवद्दीर्घदंष्ट्राम्' न नमयति अब्धौ-समुढे प्रसृता-विस्तीर्णा दीर्घा चासौ दंष्ट्रा च दीर्घदंष्ट्रा हिमवतो दीर्घदंष्ट्रा हिमवद्दीर्घदंष्ट्रा ताम् । हिमवान् पर्वतो जम्बूद्वीपाहिलवणसमुद्रे दंष्ट्राकारेण पूर्वस्यां पश्चिमायां षट्पष्टियोजनशतानि दीर्घो वर्त्तते । अत्र भुजबलचयीर्भुजबलस्य चयमिच्छतीति “अमाव्ययात्क्यन् च” (सि० ३४-२३) क्यन् प्रत्ययः, "क्यनि” (सि० ४-३-११२) यी भुजबलचयीयतीति “किप्” ( सि० ५-३-१४८) किप , "अतः” (सि० ४-३-८२ ) अलोपः, “योः प्वयव्यञ्जने लुक्" (सि० ४-४-१२१) यलोपः, "अप्रयोगीत्” (सि० १-१३७) विप्लोपः सि, “सो रुः” (सि० २-१-७२) । उभाभ्यां पाणिभ्यां कृत्वा उभापाणि "द्विदण्ड्यादिः” (सि० ७३-७५) इच्प्रत्यय उभापाणीति निपातः "क्रियाविशेषणात्" (सि० २-२-४१) अम् , लोपश्च । अत्र विशेषोक्तिपरिकरोपमानानि ॥ ४७ ॥ अद्रेः शाखां मरुदिव मनाकालयित्वा सलीलं
स्वामी बाहां हरिमिव हरि दोलयामास विष्वक् । तुल्यैर्गोत्राजयजयरवोद्घोषपूर्व च मुक्ताः
सिद्धस्वार्थ दिवि सुमनसस्तं तृषेवाभ्यपतन ॥४८॥ स्वामी विष्वक्' समन्तात् 'हरिमिव' वानरमिव 'हरिं कृष्णं दोलयामास । किं कृत्वा ? सलीलं यथा भवति बाहां मनाक् चालयित्वा । क इव ? 'मरुदिव' वायुरिव यथा मरुद् 'अद्रेः'