________________
५२
जैनमेघदूतम् ।
[प्रथमः
हस्तावलम्बं दित्सुरिवाशुभत्' पङ्कः पापं कर्दमश्च पङ्कस्यान्तरन्तःपकं अन्तःपडू आकुलितः कलित आतको येन स कलितातङ्कः अन्तःपङ्काकुलितश्चासौ कलितातङ्कश्च अन्तःपङ्काकुलितकलितातङ्कः, अन्तःपकाकुलितकलितातङ्कश्चासौ लोकश्च अन्तःपङ्काकुलितंकलितातङ्कलोकस्तस्य बाहुं विस्तार्य स्थितो भगवान् । पङ्कमध्ये आकुलितानां सभयानां लोकानां समुद्धरणाय कारुण्येन हस्तावलम्बं दास्यतीति ज्ञायते । अत्र काकतालस्य तुल्यः 'काकतालीयः “काकतालीयादयः” (सि० ७-१-११७) इति साधुस्ततः स्वार्थे कः । असानीति असक् भुवि, अस् , “प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ” (सि० ५-४-२९) इति पञ्चमी, तत आनिवप्रत्यये सिद्धम् । आस्यच्छायैरिति "सेनाशालासुराछाया" (हे० लि. नपुं० १२ श्लो०) इति न पुंस्त्वम् । तृणितेति तृणमकरोत् "णिज्बहुलं नानः कृगादिषु” (सि० ३-४-४२) णिच् , "च्यन्त्यस्वरादेः” (सि. ७-४-४३) अन्त्यस्वरलोपः । तृण्यते स्म क्त, इट, "सेट्क्तयोः” (सि०४-३-८४ ) णिजलोपः। आयंस्तेति “आङो यमहनः स्वेऽङ्गे च” (सि० ३-३-८६) इत्यात्मनेपदम् । अत्र मद्दो० द्रव्यक्रियाविरोध उपमा पर्यायोक्तं च । पद्मतन्तूयते स्मेति नम्रीभूत इत्यर्थस्य वाच्यमानत्वाद् यवेत्यर्थान्तरन्यासः । आस्यच्छायैरित्यनुमानम् । अन्तःपङ्का० उत्प्रेक्षा ॥ ४५ ॥ ४६॥ पूर्व पाणी तदनु सकले गोहिरे भूमिपीठा
दुर्नीत्वा भुजबलचयीः पीडयन् सर्वदेहम् । अत्यायस्यन्नपि हरिरुभाषाणि नानीनमत्तां
बाहामब्धिप्रसृतहिमवद्दीर्घदंष्ट्रामिवेभः॥४७॥ 'हरिः' कृष्ण उभापाणि यथा भवति 'अत्यायस्यन्नपि' अतियतमानोऽपि तां बाहां नाऽनीनमत् । उभाभ्यां पाणिभ्यां कृत्वा उभापाणि, एकेन बाहुनाऽऽक्रान्तो हस्तो यदा न नमति तदा