________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं मद्दोर्दण्डोऽप्यहह सहसा नागलक्षैरनम्यः
श्रीशैवेयं प्रति कथमसौ पद्मतन्तूयते स । यद्वा न्यायोजनि विधिवशात्काकतालीयकोऽसौ
तत्कृत्वाऽस्य प्रतिकृतिमहं तुल्यवीर्योऽप्यसानि ॥ ४५ ॥ आस्यच्छायैरिति निगदतो देवकीनन्दनस्य
त्रैलोक्येशस्तृणितकुलिशं वाममायंस्त बाहुम् । अन्तःपङ्काकुलितकलितातङ्कलोकस्य दित्सुः
कारुण्येनाशुभदिव तदा चैष हस्तावलम्बम् ॥४६॥ युग्मम् ।। 'त्रैलोक्येशः' श्रीनेमिनाथो वाम बाहुं 'आयस्त' विस्तारयामास । कस्य किंकुर्वतः? 'देवकीनन्दनस्य' कृष्णस्य 'आस्यच्छायैः' मुखच्छायाभिरिति निगदतः सतः । इतीति किम् ? महो० 'अहह' इति खेदे, असौ 'मदोर्दण्डोऽपि' मम भुजादण्डोऽपि 'सहसाझटिति 'श्रीशैवेयं प्रति' श्रीनेमिनाथं प्रति कथं 'पद्मतन्तूयते स्म?' पद्मतन्तुरिवाचरति स्म ? । यथा पद्मतन्तुः सुखेन नम्यते तथा नत इत्यर्थः । किंरूपो मद्दोर्दण्डः ? 'नागलक्षैः' गजलक्षर' नम्यः । इति प्रथमचिन्तायामतिश्यामा मुखच्छाया । 'यद्वा' अथवा असौ विधिवशात् 'काकतालीयको न्यायोऽजनि' यथा तालस्याधः काको निविष्टोऽकस्मात्तालफले पतिते काको विनष्टः, एवं मद्वाहुरपि दैवानुभावादेव सहसा नतो न तु नेमिनोऽधिका बलसंभावनेति द्वितीयचिन्तायां मध्यमा मुखच्छाया । 'तत् तस्मात्कारणादहमस्य प्रतिकृतिं कृत्वा तुल्यं वीर्य बलं यस्य ममेति तुल्यवीर्योऽपि 'असानि' भवानि । यथाऽनेन मद्बाहु मितस्तथाऽहमप्येतस्य बाहुं नमयामीति प्रतिकृतिरिति चिन्तायां हृष्टप्राया छाया । किंविशिष्टं बाहुम् ? 'तृणितकुलिशं तृणीकृतं कुलिशं-वजं येन स तम् , वन्नमपि यस्याग्रेऽसारत्वात्तृणप्रायमिवेत्यर्थः । 'च' अन्यत्तदा 'एषः' भगवान् 'अन्तःपकाकुलितकलितातङ्कलोकस्य कारुण्येन