________________
५०
जैनमेघदूतम् । '
[प्रथमः हस्ते सव्ये स्पृशति किमपि स्वामिनोऽनेकपस्या
नस्तास्कन्धं हरिभुजलता सा स्वयं स्तब्धितापि । मेरुं दण्डं क्षितितलमथ च्छत्रमाधातुमीष्टे
यस्तस्यैतत्किमिति च सुरास्तत्र संप्रावदन्त ॥४४॥ सा हरिभुजलता 'स्तब्धितापि' भृशं दृढीकृतापि 'आस्कन्धं' स्कन्धं यावत् स्वयं 'अनस्त' नता । क सति ? 'स्वामिनः' श्रीनेमिनाथस्य 'सव्ये' वामे हस्ते 'किमपि' अल्पमात्रं स्पृशति सति । स्वामिना मनागेव वामभुजेन लीलयाऽऽक्रम्य कृष्णस्य बाहा स्कन्धं यावद्वालितेत्यर्थः । किंरूपस्य स्वामिनः ? 'अनेकपस्य' अनेकान् पाति रक्षतीत्यनेकपस्तस्य । अत्र प्रतीयमानमर्थान्तरम्-अन्यस्याप्यनेकपस्य हस्तिनो हस्ते–शुण्डादण्डे किञ्चित्स्पृशति सति लता 'आस्कन्धं' यावत्प्रकाण्डं नमति । 'च' अन्यन् 'सुराः' देवाः 'तत्र' समये इति 'संप्रावदन्त' संभूय सममेवोचुः । इतीति किम् ? 'यः' भगवान् मेरु दण्डं 'अर्थ' अनन्तरं 'क्षितितलं' पृथ्वीतलं छत्रं 'आधातुं' रचयितुं 'ईष्टे' समर्थो भवति तस्य 'एतद्' हरिभुजावालनं 'किम् ?' न किञ्चिदित्यर्थः । अनस्तेति "भूपार्थसकिरादिभ्यश्च निक्यौ” (सि० ३-४-९३) इति कर्मकर्तरि बिकनिषेधः । स्वामी बाहामनमयद्, बाहा स्वयमस्त । आस्कन्धमिति “पर्यपाङ्बहिरच् पञ्चम्या" (सि० ३-१-३२) अनेन पञ्चम्यव्ययीभावः । संप्रावदन्तेति "व्यक्तवाचां सहोतो” (सि० ३-३-७९) इत्यात्मनेपदम् । सव्ये हस्ते इति पर्यायोक्तम् । स्वामिनाऽक्लेशेन बाहा वालितेत्यर्थस्य लभ्यमानत्वात्किमपीति पदमेतदर्थोक्ष्योतकम् । भुजलतेति समासोक्तम् । मेरुदण्डमित्यर्थान्तरन्यासः, निषेध उदात्तं वा, युगपक्रियारूपः समुञ्चयश्च । “निषेधो वक्तुमिष्टस्य यो विशेषामिधित्सया।" (का० १०, १०६) इति ॥ ४४ ॥